Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीनारदः पद्मजमेकदाऽऽह
पितस्त्वया सृष्टमिदं जगत्किम् ।
किं विष्णुना वा गिरिशेन वा कि-
-मकर्तृकं वा सकलेश्वरः कः ॥ ११-१ ॥
इतीरितोऽजः सुतमाह साधु
पृष्टं त्वया नारद मां शृणु त्वम् ।
विभाति देवी खलु सर्वशक्ति-
-स्वरूपिणी सा भुवनस्य हेतुः ॥ ११-२ ॥
एकं परं ब्रह्म सदद्वितीय-
-मात्मेति वेदान्तवचोभिरुक्ता ।
न सा पुमान् स्त्री च न निर्गुणा सा
स्त्रीत्वं च पुंस्त्वं च गुणैर्दधाति ॥ ११-३ ॥
सर्वं तदा वास्यमिदं जगत्सा
जाता न सर्वं तत एव जातम् ।
तत्रैव सर्वं च भवेत्प्रलीनं
सैवाखिलं नास्ति च किञ्चनान्यत् ॥ ११-४ ॥
गौणानि चान्तःकरणेन्द्रियाणि
सा निर्गुणाऽवाङ्मतिगोचरा च ।
सा स्तोत्रमन्त्रैः सगुणा महद्भिः
संस्तूयते भक्तविपन्निहन्त्री ॥ ११-५ ॥
सुधासमुद्रे वसतीयमार्या
द्वीपे विचित्राद्भुतशक्तियुक्ता ।
सर्वं जगद्यद्वशगं वयं च
त्रिमूर्तयो नाम यदाश्रिताः स्मः ॥ ११-६ ॥
तद्दत्तशक्तित्रयमात्रभाज-
-स्त्रिमूर्तयः पुत्र वयं विनीताः ।
तदाज्ञया साधु सदाऽपि कुर्मो
ब्रह्माण्डसर्गस्थितिसंहृतीश्च ॥ ११-७ ॥
दैवेन मूढं कविमातनोति
सा दुर्बलं तु प्रबलं करोति ।
पङ्गुं गिरिं लङ्घयते च मूकं
कृपावती चाऽतनुते सुवाचम् ॥ ११-८ ॥
यत्किञ्चिदज्ञायि मया महत्त्वं
देव्यास्तदुक्तं तव सङ्ग्रहेण ।
सर्वत्र तद्वर्णय विस्तरेण
विधत्स्व भक्तिं हृदये जनानाम् ॥ ११-९ ॥
इतीरितोऽजेन मुनिः प्रसन्न-
-स्तव प्रभावं करुणार्द्रचित्ते ।
व्यासं तथाऽन्यांश्च यथोचितं स
प्रबोधयामस पवित्रवाग्भिः ॥ ११-१० ॥
न मे गुरुस्त्वच्चरितस्य वक्ता
न मे मतिस्त्वत्स्मरणैकसक्ता ।
अवाच्यवक्ताऽहमकार्यकर्ता
नमामि मातश्चरणाम्बुजं ते ॥ ११-११ ॥
द्वादश दशकम् (१२) – उतथ्य जननम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.