Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ अमृतोत्पत्तिः ॥
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥
अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया ।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ २ ॥
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥ ३ ॥
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥ ४ ॥
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ।
क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः ॥ ५ ॥
इमां चिन्तयतः सर्वां निखिलेन कथां तव ।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥ ६ ॥
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ ७ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सन्तारं कारयामास सर्षिसङ्घः सराघवः ॥ ८ ॥
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ ९ ॥
ततो मुनिवरस्तूर्णं जगाम सहराघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ १० ॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ ११ ॥
कतरो राजवंशोऽयं विशालायां महामुने ।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ १२ ॥
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥
श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् ।
अस्मिन्देशे हि यद्वृत्तं तदापि शृणु राघव ॥ १४ ॥
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महाभाग वीर्यवन्तः सुधार्मिकाः ॥ १५ ॥
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयाः ॥ १६ ॥
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १७ ॥
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥
अथ वर्ष सहस्रेण योक्त्रसर्पशिरांसि च ।
[* अधिकपाठः –
वमन्त्यति विषं तत्र ददंशुर्दशनैः शिलाः ॥ १९ ॥
उत्पपाताग्निसङ्काशं हालाहलमहाविषम् ।
तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् ॥ २० ॥
अथ देवा महादेवं शङ्करं शरणार्थिनः ।
जग्मुः पशुपतिं रुद्रं त्राहित्राहीति तुष्टुवुः ॥ २१ ॥
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः ।
प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरिः ॥ २२ ॥
उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः ।
दैवतैर्मथ्यमानो तु यत्पूर्वं समुपस्थितम् ॥ २३ ॥
तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रजोसि यत् ।
अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥ २४ ॥
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत ।
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः ॥ २५ ॥
हालाहलविषं घोरं स जग्राहामृतोपमम् ।
देवान्विसृज्य देवेशो जगाम भगवान्हरः ॥ २६ ॥
ततो देवासुराः सर्वे ममन्थू रघुनन्दन ।
प्रविवेशाथ पातालं मन्थानः पर्वतोऽनघ ॥ २७ ॥
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम् ।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥ २८ ॥
पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि ।
इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥ २९ ॥
पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः ।
पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥ ३० ॥
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तम ।
अथ वर्षसहस्रेण आयुर्वेदमयः पुमान् ॥ ३१ ॥ [पुन]
उदतिष्ठत्स धर्मात्मा सदण्डं सकमण्डलुः ।
*]
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ ३२ ॥
अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ ३३ ॥
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् ।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ ३४ ॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।
अप्रतिग्रहणात्ताश्च सर्वाः साधारणाः स्मृताः ॥ ३५ ॥
वरुणस्य ततः कन्या वारुणी रघुनन्दन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ ३६ ॥
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ ३७ ॥
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
हृष्टाः प्रमुदिताश्चासन्वारुणीग्रहणात्सुराः ॥ ३८ ॥
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ ३९ ॥
अथ तस्य कृते राम महानासीत्कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ ४० ॥
एकतोऽभ्यागमन्सर्वे ह्यसुरा राक्षसैः सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ ४१ ॥
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सोऽहरत्तूर्णं मायामास्थाय मोहिनीम् ॥ ४२ ॥
ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ ४३ ॥
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
तस्मिन्युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥ ४४ ॥
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
शशास मुदितो लोकान्सर्षिसङ्घान्सचारणान् ॥ ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
बालकाण्ड षट्चत्वारिंशः सर्गः (४६) >>
सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.