Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ भरद्वाजातिथ्यम् ॥
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ १ ॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथाऽऽतिथ्यं वने यदुपपद्यते ॥ २ ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसम्युक्तं तुष्येस्त्वं येन केनचित् ॥ ३ ॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ ४ ॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ॥ ५ ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥ ६ ॥
राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥ ७ ॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम् ॥ ८ ॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेकैव समागतः ॥ ९ ॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ १० ॥
अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ ११ ॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १२ ॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३ ॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतसैव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ १४ ॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ १५ ॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ १६ ॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ १७ ॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्थमाह्वये सपरिच्छदाः ॥ १८ ॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ १९ ॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २० ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ २१ ॥
एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २२ ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २३ ॥
मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २४ ॥
ततोभ्यवर्तन्त घनाः दिव्याः कुसुमवृष्टयः । [वर्षन्त]
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥
प्रववुश्चोत्तमा वाताः ननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वाः वीणाः प्रमुमुचुस्स्वरान् ॥ २६ ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २७ ॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृसुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २८ ॥
बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः ॥ २९ ॥
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ ३० ॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥ ३१ ॥
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ ३२ ॥
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३३ ॥
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ ३४ ॥
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ॥ ३५ ॥
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ ३६ ॥
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश्च मुदा युक्ताः दृष्ट्वा तं वेश्मसंविधिम् ॥ ३७ ॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ॥ ३८ ॥
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत्सचिवासने ॥ ३९ ॥
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ताच निषेदतुः ॥ ४० ॥
ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ ४१ ॥
तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्याः ब्रह्मणस्तु प्रसादजाः ॥ ४२ ॥
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ ४३ ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ ४४ ॥
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ ४५ ॥
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ ४६ ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना ।
उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥ ४७ ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ ४८ ॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्थानर्तकाश्चासन् भरद्वाजस्य शासनात् ॥ ४९ ॥
ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः ॥ ५० ॥
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ ५१ ॥
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् ।
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ॥ ५२ ॥
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ॥ ५३ ॥
अप्येकमेकं पुरुषं प्रमदाः सप्तचाष्ट च ।
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ॥ ५४ ॥
परिमृज्य तथाऽन्योन्यं पाययन्ति वराङ्गनाः ।
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ॥ ५५ ॥
अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि ।
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ॥ ५६ ॥
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ।
नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः ॥ ५७ ॥
मत्तप्रमत्तमुदिता चमूः सा तत्र सम्बभौ ।
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ॥ ५८ ॥
अप्सरोगणसम्युक्ताः सैन्या वाचमुदैरयन् ।
नैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान् ॥ ५९ ॥
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।
इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः ॥ ६० ॥
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ॥ ६१ ॥
भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् ।
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ॥ ६२ ॥
समन्तात्परिधावन्ति माल्योपेताः सहस्रशः ।
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ॥ ६३ ॥
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ।
प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ॥ ६४ ॥
बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ।
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ॥ ६५ ॥
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा ॥ ६६ ॥
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ।
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ॥ ६७ ॥
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ।
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ॥ ६८ ॥
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ।
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ॥ ६९ ॥
ताश्चकामदुघा गावो द्रुमाश्चासन्मधुस्रुतः । [मधुश्च्युतः]
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ॥ ७० ॥
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ।
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ॥ ७१ ॥
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ॥ ७२ ॥
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ।
ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे ॥ ७३ ॥
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ।
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ॥ ७४ ॥
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ।
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ॥ ७५ ॥
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ।
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ॥ ७६ ॥
पादुकोपानहाश्चैव युग्मानि च सहस्रशः ।
आञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि च धनूंषि च ॥ ७७ ॥
मर्मत्राणानि चित्राणि शयनान्यासनानि च ।
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ॥ ७८ ॥
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।
आकाशवर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान् ॥ ७९ ॥
नीलवैडूर्य्यवर्णांश्च मृदून्यवससञ्चयान् ।
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ ८० ॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वाऽऽतिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ ८१ ॥
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ ८२ ॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ ८३ ॥
तथैव मत्ता मदिरोत्कटाः
नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः
पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ ८४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥
अयोध्याकाण्ड द्विनवतितमः सर्गः (९२) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.