Site icon Stotra Nidhi

Ayodhya Kanda Sarga 80 – अयोध्याकाण्ड अशीतितमः सर्गः (८०)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ मार्गसंस्कारः ॥

अथ भूमि प्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥

कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।
तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ २ ॥

कूपकाराः सुधाकाराः वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥

स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगः समुद्र इव पर्वणि ॥ ४ ॥

ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः ।
करणैः विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे ॥ ५ ॥

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।
जनास्ते चक्रिरे मार्गं चिन्दन्तः विविधान् द्रुमान् ॥ ६ ॥

अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।
केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित् ॥ ७ ॥

अपरे वीरणस्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥

अपरेऽपूरयन्कूपान् पांसुभिः श्वभ्रमायतम् ।
निम्नभागांस्ततः केचित् समांश्चक्रुः समन्ततः ॥ ९ ॥

बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ॥ १० ॥

अचिरेणैव कालेन परिवाहान्बहूदकान् ।
चक्रुर्बहु विधाकारान् सागरप्रतिमान्बहून् ॥ ११ ॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान्बहुविधान् वेदिकापरिमण्डितान् ॥ १२ ॥

ससुधाकुट्‍टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्ट द्विजगणः पताकाभिरलङ्कृतः ॥ १३ ॥

चन्दनोदकसंसिक्तर्नाना कुसुमभूषितः ।
बह्वशोभत सेनायाः पन्थाः सुरपथोपमः ॥ १४ ॥

आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १५ ॥

यो निवेशस्त्वभिप्रेतः भरतस्य महात्मनः ।
भूयस्तं शोभयामासुः भूषाभिर्भूषणोपमम् ॥ १६ ॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशान् स्थापयामासुर्भरतस्य महात्मनः ॥ १७ ॥

बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तन्त्रेन्द्र कीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १८ ॥

प्रासाद मालावितताः सौधप्राकार संवृताः ।
पताका शोभिताः सर्वे सुनिर्मित महापथाः ॥ १९ ॥

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः ।
समुच्च्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ २० ॥

जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम् ॥ २१ ॥

सचन्द्रतारागणमण्डितं यथा
नभः क्षपायाममलं विराजते ।
नरेन्द्रमार्गस्स तथा व्यराजत
क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥ ८० ॥

अयोध्याकाण्ड एकाशीतितमः सर्गः (८१) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments