Site icon Stotra Nidhi

Yuddha Kanda Sarga 90 – युद्धकाण्ड नवतितमः सर्गः (९०)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ सौमित्रिरावणियुद्धम् ॥

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ ।
प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ॥ १ ॥

तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली ।
शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ॥ २ ॥

ततो विस्फारयामास महद्धनुरवस्थितः ।
उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ॥ ३ ॥

ते शराः शिखिसङ्काशा निपतन्तः समाहिताः ।
राक्षसान्दारयामासुर्वज्राणीव महागिरीन् ॥ ४ ॥

विभीषणस्यानुचरास्तेऽपि शूलासिपट्‍टिशैः ।
चिच्छिदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ॥ ५ ॥

राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ।
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ ६ ॥

ततः सञ्चोदयानो वै हरीन्रक्षोरणप्रियान् ।
उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ७ ॥

एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ।
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ८ ॥

अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि ।
रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥ ९ ॥

प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ।
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ १० ॥

जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः ।
सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥ ११ ॥

संह्रादी विकटो निघ्नस्तपनो दम एव च ।
प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥ १२ ॥

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् ।
विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥ १३ ॥

अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ।
कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥ १४ ॥

एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥ १५ ॥

एतावदेव शेषं वो जेतव्यमिह वानराः ।
हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ १६ ॥

अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ।
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १७ ॥

हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति ।
तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ॥ १८ ॥

वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ।
इति तेनातियशसा राक्षसेनाभिचोदिताः ॥ १९ ॥

वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ।
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः ॥ २० ॥

मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः ।
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः ॥ २१ ॥

अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ।
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ॥ २२ ॥

परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ।
शरैः परशुभिस्तीक्ष्णैः पट्‍टिशैर्यष्टितोमरैः ॥ २३ ॥

जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ।
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् ॥ २४ ॥

देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ।
हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान् ॥ २५ ॥

[* स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः । *]
रक्षसां कदनं चक्रे समासाद्य सहस्रशः ।
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ॥ २६ ॥

लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ।
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ॥ २७ ॥

शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ।
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ॥ २८ ॥

चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ।
न ह्यादानं न सन्धानं धनुषो वा परिग्रहः ॥ २९ ॥

न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ।
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् ॥ ३० ॥

अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ।
चापवेगविनिर्मुक्तबाणजालैः समन्ततः ॥ ३१ ॥

अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ।
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् ॥ ३२ ॥

अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ।
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः ॥ ३३ ॥

निरन्तरमिवाकाशं बभूव तमसावृतम् ।
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः ॥ ३४ ॥

दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ।
तमसा संवृतं सर्वमासीद्भीमतरं महत् ॥ ३५ ॥

अस्तं गते सहस्रांशौ संवृतं तमसेव हि ।
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः ॥ ३६ ॥

क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ।
न तदानीं ववौ वायुर्न च जज्वाल पावकः ॥ ३७ ॥

स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ।
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ॥ ३८ ॥

अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ ३९ ॥

ततोऽपरेण भल्लेन शितेन निशितेन च ।
सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥ ४० ॥

महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः ।
स तेन बाणाशनिना तलशब्दानुनादिना ॥ ४१ ॥

लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ।
स यन्तरि महातेजा हते मन्दोदरीसुतः ॥ ४२ ॥

स्वयं सारथ्यमकरोत्पुनश्च धनुरस्पृशत् ।
तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ॥ ४३ ॥

हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः ।
धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ॥ ४४ ॥

छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः ।
अर्दयामास बाणौघैर्विचरन्तमभीतवत् ॥ ४५ ॥

निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ।
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥ ४६ ॥

विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥ ४७ ॥

ततः प्रमाथी शरभो रभसो गन्धमादनः ।
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥ ४८ ॥

ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः ।
चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ॥ ४९ ॥

तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ।
मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ॥ ५० ॥

ते हया मथिता भग्ना व्यसवो धरणीं गताः ।
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ॥ ५१ ॥

पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ।
स हताश्वादवप्लुत्य रथान्मथितसारथेः ।
शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ५२ ॥

ततो महेन्द्रप्रतिमः स लक्ष्मणः
पदातिनं तं निशितैः शरोत्तमैः ।
सृजन्तमाजौ निशितान्शरोत्तमान्
भृशं तदा बाणगणैर्न्यवारयत् ॥ ५३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवतितमः सर्गः ॥ ९० ॥

युद्धकाण्ड एकनवतितमः सर्गः (९१) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments