Site icon Stotra Nidhi

Yuddha Kanda Sarga 69 – युद्धकाण्ड एकोनसप्ततितमः सर्गः (६९)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ नरान्तकवधः ॥

एवं विलपमानस्य रावणस्य दुरात्मनः ।
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥

एवमेव महावीर्यो हतो नस्तातमध्यमः ।
न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २ ॥

नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो ।
स कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ३ ॥

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः ।
सहस्रखरसम्युक्तो रथो मेघस्वनो महान् ॥ ४ ॥

त्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः ।
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ ५ ॥

कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् ।
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ ६ ॥

शम्बरो देवराजेन नरको विष्णुना यथा ।
तथाऽद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।
पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥

ततोऽहमहमित्येव गर्जन्तो नैरृतर्षभाः ।
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥

अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः ।
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥ ११ ॥

सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः ।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥ १२ ॥

देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ।
सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः ।
सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥

स तैस्तदा भास्करतुल्यवर्चसैः
सुतैर्वृतः शत्रुबलप्रमर्दनैः ।
रराज राजा मघवान्यथाऽमरैः
वृतो महादानवदर्पनाशनैः ॥ १४ ॥

स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः ।
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास सम्युगे ॥ १५ ॥

युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः ।
रक्षणार्थं कुमाराणां प्रेषयामास सम्युगे ॥ १६ ॥

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ।
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।
निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥

त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥ १९ ॥

ततः सुदर्शनं नाम नीलजीमूतसन्निभम् ।
ऐरावतकुले जातमारुरोह महोदरः ॥ २० ॥

सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम् ।
रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २१ ॥

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २२ ॥

त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।
सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ॥ २३ ॥

त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे ।
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २४ ॥

अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा ।
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २५ ॥

सुचक्राक्षं सुसम्युक्तं स्वनुकर्षं सुकूबरम् ।
तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥ २६ ॥

स काञ्चनविचित्रेण मुकुटेन विराजता ।
भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ २७ ॥

स रराज रथे तस्मिन्राजसूनुर्महाबलः ।
वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २८ ॥

हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् ।
मनोजवं महाकायमारुरोह नरान्तकः ॥ २९ ॥

गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः ।
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ ३० ॥

देवान्तकः समादाय परिघं वज्रभूषणम् ।
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३१ ॥

महापार्श्वो महाकायो गदामादाय वीर्यवान् ।
विरराज गदापाणिः कुबेर इव सम्युगे ॥ ३२ ॥

प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः ।
सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ ३३ ॥

तान्गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः ।
अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ ३४ ॥

ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ।
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ ३५ ॥

प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता ।
शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ ३६ ॥

मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।
इति कृत्वा मतिं वीरा निर्जग्मुः सम्युगार्थिनः ॥ ३७ ॥

जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।
जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥ ३८ ॥

क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा ।
रक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥ ३९ ॥

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।
ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ४० ॥

हरयोपि महात्मानो ददृशुर्नैरृतं बलम् ।
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ॥ ४१ ॥

नीलजीमूतसङ्काशं समुद्यतमहायुधम् ।
दीप्तानलरविप्रख्यैः सर्वतो नैरृतैर्वृतम् ॥ ४२ ॥

तद्दृष्ट्वा बलमायान्तं लब्धलक्षाः प्लवङ्गमाः ।
समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः ।
अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥ ४३ ॥

ततः समुद्घुष्टरवं निशम्य
रक्षोगणा वानरयूथपानाम् ।
अमृष्यमाणाः परहर्षमुग्रं
महाबला भीमतरं विनेदुः ॥ ४४ ॥

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४५ ॥

केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः ।
रक्षःसैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥ ४६ ॥

द्रुमांश्च विपुलस्कन्धान्गृह्य वानरपुङ्गवाः ।
तद्युद्धमभवद्घोरं रक्षोवानरसङ्कुलम् ॥ ४७ ॥

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् ।
बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४८ ॥

सिंहनादान्विनेदुश्च रणे वानरराक्षसाः ।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ ४९ ॥

निजघ्नुः सम्युगे क्रुद्धाः कवचाभरणावृतान् ।
केचिद्रथगतान्वीरान्गजवाजिगतानपि ॥ ५० ॥

निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवङ्गमाः ।
शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥ ५१ ॥

चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः ।
राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ ५२ ॥

शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः ।
अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ५३ ॥

रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः ।
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ ५४ ॥

मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ।
विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ॥ ५५ ॥

आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ।
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ॥ ५६ ॥

पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ।
वानरान्वानरैरेव जघ्नुस्ते रजनीचराः ॥ ५७ ॥

राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ।
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ॥ ५८ ॥

तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।
निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम् ॥ ५९ ॥

सिंहनादान्विनेदुश्च रणे वानरराक्षसाः ।
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ॥ ६० ॥

रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ।
रथेन च रथं चापि वारणेनैव वारणम् ॥ ६१ ॥

हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ।
प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥ ६२ ॥

हरयो राक्षसान्जघ्नुर्द्रुमैश्च बहुशाखिभिः ।
तद्युद्धमभवद्घोरं रक्षोवानरसङ्कुलम् ॥ ६३ ॥

क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ।
राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ॥ ६४ ॥

विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च सम्युगे ।
हतैश्च कपिरक्षोबिर्दुर्गमा वसुधाऽभवत् ॥ ६५ ॥

ते वानरा गर्वितहृष्टचेष्टाः
सङ्ग्राममासाद्य भयं विमुच्य ।
युद्धं तु सर्वे सह राक्षसैस्तैः
नानायुधाश्चक्रुरदीनसत्त्वाः ॥ ६६ ॥

तस्मिन्प्रवृत्ते तुमुले विमर्दे
प्रहृष्यमाणेषु वलीमुखेषु ।
निपात्यमानेषु च राक्षसेषु
महर्षयो देवगणाश्च नेदुः ॥ ६७ ॥

ततो हयं मारुततुल्यवेगं
आरुह्य शक्तिं निशितां प्रगृह्य ।
नरान्तको वानरराजसैन्यं
महार्णवं मीन इवाविवेश ॥ ६८ ॥

स वानरान् सप्तशतानि वीरः
प्रासेन दीप्तेन विनिर्बिभेद ।
एकक्षणेनेन्द्ररिपुर्महात्मा
जघान सैन्यं हरिपुङ्गवानाम् ॥ ६९ ॥

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ।
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ७० ॥

स तस्य ददृशे मार्गो मांसशोणितकर्दमः ।
पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ७१ ॥

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः ।
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ७२ ॥

ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः ।
ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७३ ॥

यावदुत्पाटयामासुर्वृक्षान् शैलान्वनौकसः ।
तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ ७४ ॥

दिक्षु सर्वासु बलवान्विचचार नरान्तकः ।
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ ७५ ॥

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् ।
उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ ७६ ॥

एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।
भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ७७ ॥

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७८ ॥

पततां हरिवीराणां रूपाणि प्रचकाशिरे ।
वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ७९ ॥

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ।
ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ८० ॥

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ।
नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ८१ ॥

विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ।
गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ ८२ ॥

अथोवाच महातेजाः सुग्रीवो वानराधिपः ।
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ८३ ॥

गच्छ त्वं राक्षसं वीरो योऽसौ तुरगमास्थितः ।
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ८४ ॥

स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः ।
अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ॥ ८५ ॥

शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः ।
रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥ ८६ ॥

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ८७ ॥

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।
अस्मिन्वज्रसमस्पर्शं प्रासं क्षिप ममोरसि ॥ ८८ ॥

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।
सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ ८९ ॥

प्रासं समाविध्य तदाऽङ्गदाय
समुज्ज्वलन्तं सहसोत्ससर्ज ।
स वालिपुत्रोरसि वज्रकल्पे
बभूव भग्नो न्यपतच्च भूमौ ॥ ९० ॥

तं प्रासमालोक्य तदा विभग्नं
सुपर्णकृत्तोरगभोगकल्पम् ।
तलं समुद्यम्य स वालिपुत्रः
तुरङ्गमं तस्य जघान मूर्ध्नि ॥ ९१ ॥

निमग्नतालुः स्फुटिताक्षितारो
निष्क्रान्तजिह्वोऽचलसन्निकाशः ।
स तस्य वाजी निपपात भूमौ
तलप्रहारेण विशीर्णमूर्धा ॥ ९२ ॥

नरान्तकः क्रोधवशं जगाम
हतं तुरङ्गं पतितं निरीक्ष्य ।
स मुष्टिमुद्यम्य महाप्रभावो
जघान शीर्षे युधि वालिपुत्रम् ॥ ९३ ॥

अथाङ्गदो मुष्टिविभिन्नमूर्धा
सुस्राव तीव्रं रुधिरं भृशोष्णम् ।
मुहुर्विजज्वाल मुमोह चापि
सञ्ज्ञां समासाद्य विसिष्मिये च ॥ ९४ ॥

अथाङ्गदो वज्रसमानवेगं
संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।
निपातयामास तदा महात्मा
नरान्तकस्योरसि वालिपुत्रः ॥ ९५ ॥

स मुष्टिनिष्पष्टविभिन्नवक्षा
ज्वालावमच्छोणितदिग्धगात्रः ।
नरान्तको भूमितले पपात
यथाऽचलो वज्रनिपातभग्नः ॥ ९६ ॥

अथान्तरिक्षे त्रिदशोत्तमानां
वनौकसां चैव महाप्रणादः ।
बभूव तस्मिन्निहतेऽग्र्यवीरे
नरान्तके वालिसुतेन सङ्ख्ये ॥ ९७ ॥

अथाङ्गदो राममनःप्रहर्षणं
सुदुष्करं तत्कृतवान्हि विक्रमम् ।
विसिष्मिये सोऽप्यतिवीर्यविक्रमः
पुनश्च युद्धे स बभूव हर्षितः ॥ ९८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥

युद्धकाण्ड सप्ततितमः सर्गः (७०) >>\


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments