Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सुग्रीवाद्यनुशोकः ॥
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।
ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १ ॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।
आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ ४ ॥
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ ५ ॥
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ।
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ ७ ॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।
न चैनं मायया च्छन्नं ददृशू रावणिं रणे ॥ ८ ॥
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः ।
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ ९ ॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ॥
तेजसा यशसा चैव विक्रमेण च सम्युतम् ।
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ॥ ११ ॥
उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ।
दूषणस्य च हन्तारौ खरस्य च महाबलौ ॥ १२ ॥
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ।
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ॥ १३ ॥
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ॥ १४ ॥
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ॥ १५ ॥
सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ।
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ॥ १६ ॥
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वतः ॥ १७ ॥
यूथपानपि तान्सर्वांस्ताडयामास रावणिः ।
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ॥ १८ ॥
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ॥ १९ ॥
हनूमतो वेगवतो विससर्ज शरान्दश ।
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ॥ २० ॥
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ॥ २१ ॥
विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ।
तान्वानरवरान्भित्त्वा शरैरग्निशिखोपमैः ॥ २२ ॥
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ॥ २३ ॥
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ॥ २४ ॥
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ॥ २५ ॥
परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।
विनेदुश्च महानादान्सर्वतो जलदोपमाः ॥ २६ ॥
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ॥ २७ ॥
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।
हर्षेण तु समाविष्ट इन्द्रजित्समितिञ्जयः ॥ २८ ॥
प्रविवेश पुरीं लङ्कां हर्षयन्सर्वराक्षसान् ।
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ॥ २९ ॥
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ॥ ३० ॥
सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ॥ ३१ ॥
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।
सशेषभाग्यताऽस्माकं यदि वीर भविष्यति ॥ ३२ ॥
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।
पर्यवस्थापयात्मानमनाथं मां च वानर ॥ ३३ ॥
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ॥ ३४ ॥
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।
ततः सलिलमादाय विद्यया परिजप्य च ॥ ३५ ॥
सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ॥ ३६ ॥
अब्रवीत्कालसम्प्राप्तमसम्भ्रममिदं वचः ।
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ॥ ३७ ॥
अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपकल्पते ।
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ॥ ३८ ॥
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।
अथवा रक्ष्यतां रामो यावत्सञ्ज्ञाविपर्ययः ॥ ३९ ॥
लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।
नैतत्किञ्चन रामस्य न च रामो मुमूर्षति ॥ ४० ॥
न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ॥ ४१ ॥
यावत्कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ॥ ४२ ॥
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ॥ ४३ ॥
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ॥ ४४ ॥
विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ।
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ॥ ४५ ॥
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ॥ ४६ ॥
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ॥ ४७ ॥
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ॥ ४८ ॥
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभा कृतौ ॥ ४९ ॥
स हर्षवेगानुगतान्तरात्मा
श्रुत्वा वचस्तस्य महारथस्य ।
जहौ ज्वरं दाशरथेः समुत्थितं
प्रहृष्य वाचाऽभिननन्द पुत्रम् ॥ ५० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
युद्धकाण्ड सप्तचत्वारिंशः सर्गः (४७) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.