Site icon Stotra Nidhi

Srinivasa (Narasimha) Stotram – श्रीनिवास (नृसिंह) स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अथ विबुधविलासिनीषु विष्व-
-ङ्मुनिमभितः परिवार्य तस्थुषीषु ।
मदविहृतिविकत्थनप्रलापा-
-स्ववमतिनिर्मितनैजचापलासु ॥ १ ॥

त्रिभुवनमुदमुद्यतासु कर्तुं
मधुसहसागतिसर्वनिर्वहासु ।
मधुरसभरिताखिलात्मभावा-
-स्वगणितभीतिषु शापतश्शुकस्य ॥ २ ॥

अतिविमलमतिर्महानुभावो
मुनिरपि शान्तमना निजात्मगुप्त्यै ।
अखिलभुवनरक्षकस्य विष्णोः
स्तुतिमथ कर्तुमना मनाग्बभूव ॥ ३ ॥

श्रियःश्रियं षड्गुणपूरपूर्णं
श्रीवत्सचिह्नं पुरुषं पुराणम् ।
श्रीकण्ठपूर्वामरबृन्दवन्द्यं
श्रियःपतिं तं शरणं प्रपद्ये ॥ ४ ॥

विभुं हृदि स्वं भुवनेशमीड्यं
नीलाश्रयं निर्मलचित्तचिन्त्यम् ।
परात्परं पामरपारमेन-
-मुपेन्द्रमूर्तिं शरणं प्रपद्ये ॥ ५ ॥

स्मेरातसीसूनसमानकान्तिं
सुरक्तपद्मप्रभपादहस्तम् ।
उन्निद्रपङ्केरुहचारुनेत्रं
पवित्रपाणिं शरणं प्रपद्ये ॥ ६ ॥

सहस्रभानुप्रतिमोपलौघ-
-स्फुरत्किरीटप्रवरोत्तमाङ्गम् ।
प्रवालमुक्तानवरत्नहार-
-तारं हरिं तं शरणं प्रपद्ये ॥ ७ ॥

पुरा रजोदुष्टधियो विधातु-
-रपाहृतान् यो मधुकैटभाभ्याम् ।
वेदानुपादाय ददौ च तस्मै
तं मत्स्यरूपं शरणं प्रपद्ये ॥ ८ ॥

पयोधिमध्येऽपि च मन्दराद्रिं
धर्तुं च यः कूर्मवपुर्बभूव ।
सुधां सुराणामवनार्थमिच्छं-
-स्तमादिदेवं शरणं प्रपद्ये ॥ ९ ॥

वसुन्धरामन्तरदैत्यपीडां
रसातलान्तर्विवशाभिविष्टाम् ।
उद्धारणार्थं च वराह आसी-
-च्चतुर्भुजं तं शरणं प्रपद्ये ॥ १० ॥

नखैर्वरैस्तीक्ष्णमुखैर्हिरण्य-
-मरातिमामर्दितसर्वसत्त्वम् ।
विदारयामास च यो नृसिंहो
हिरण्यगर्भं शरणं प्रपद्ये ॥ ११ ॥

महन्महत्वेन्द्रियपञ्चभूत-
-तन्मात्रमात्रप्रकृतिः पुराणी ।
यतः प्रसूता पुरुषास्तदात्मा
तमात्मनाथं शरणं प्रपद्ये ॥ १२ ॥

पुरा य एतत्सकलं बभूव
येनापि तद्यत्र च लीनमेतत् ।
आस्तां यतोऽनुग्रहनिग्रहौ च
तं श्रीनिवासं शरणं प्रपद्ये ॥ १३ ॥

निरामयं निश्चलनीरराशि-
-नीकाशसद्रूपमयं महस्तत् ।
नियन्तृ निर्मातृ निहन्तृ नित्यं
निद्रान्तमेनं शरणं प्रपद्ये ॥ १४ ॥

जगन्ति यः स्थावरजङ्गमानि
संहृत्य सर्वाण्युदरेशयानि ।
एकार्णवान्तर्वटपत्रतल्पे
स्वपित्यनन्तं शरणं प्रपद्ये ॥ १५ ॥

निरस्तदुःखौघमतीन्द्रियं तं
निष्कारणं निष्कलमप्रमेयम् ।
अणोरणीयांसमनन्तमन्त-
-रात्मानुभावं शरणं प्रपद्ये ॥ १६ ॥

सप्ताम्बुजीरञ्जकराजहासं
सप्तार्णवीसंसृतिकर्णधारम् ।
सप्ताश्वबिम्बाश्वहिरण्मयं तं
सप्तार्चिरङ्गं शरणं प्रपद्ये ॥ १७ ॥

निरागसं निर्मलपूर्णबिम्बं
निशीथिनीनाथनिभाननाभम् ।
निर्णीतनिद्रं निगमान्तनित्यं
निःश्रेयसं तं शरणं प्रपद्ये ॥ १८ ॥

निरामयं निर्मलमप्रमेयं
निजान्तरारोपितविश्वबिम्बम् ।
निस्सीमकल्याणगुणात्मभूतिं
निधिं निधीनां शरणं प्रपद्ये ॥ १९ ॥

त्वक्चर्ममांसास्थ्यसृगश्रुमूत्र-
-श्लेष्मान्त्रविट्च्छुक्लसमुच्चयेषु ।
देहेष्वसारेषु न मे स्पृहैषा
ध्रुवं ध्रुवं त्वं भगवन् प्रसीद ॥ २० ॥

गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २१ ॥

देवाः समस्तामरयोगिमुख्याः
गन्धर्वविद्याधरकिन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं प्रपद्ये ॥ २२ ॥

वेदान् समस्तान् खलु शास्त्रगर्भान्
आयुः स्थिरं कीर्तिमतीव लक्ष्मीम् ।
यस्य प्रसादात् पुरुषा लभन्ते
तं नारसिंहं शरणं प्रपद्ये ॥ २३ ॥

ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां‍पतिश्च ।
चन्द्रार्कवाय्वग्निमरुद्गणाश्च
त्वमेव नान्यत् सततं नतोऽस्मि ॥ २४ ॥

स्रष्टा च नित्यं जगतामधीशः
त्राता च हन्ता विभुरप्रमेयः ।
एकस्त्वमेव त्रिविधा विभिन्नः
त्वां सिंहमूर्तिं सततं नतोऽस्मि ॥ २५ ॥

इति श्रीनिवास स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments