Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १ ॥
कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ २ ॥
कश्यप उवाच –
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे ॥ ३ ॥
अत्रिरुवाच –
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥ ४ ॥
भरद्वाज उवाच –
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५ ॥
विश्वामित्र उवाच –
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६ ॥
गौतम उवाच –
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः ॥ ७ ॥
जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८ ॥
वसिष्ठ उवाच –
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा ॥ ९ ॥
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ १० ॥
इति सप्तर्षिभिः कृतं श्री वेङ्कटेश्वर शरणागति स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.