Site icon Stotra Nidhi

Sri Veda Vyasa Ashtottara Shatanama Stotram 1 – श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् 1

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

व्यासं विष्णुस्वरूपं कलिमलतमसः प्रोद्यदादित्यदीप्तिं
वासिष्ठं वेदशाखाव्यसनकरमृषिं धर्मबीजं महान्तम् ।
पौराणब्रह्मसूत्राण्यरचयदथ यो भारतं च स्मृतिं तं
कृष्णद्वैपायनाख्यं सुरनरदितिजैः पूजितं पूजयेऽहम् ॥

वेदव्यासो विष्णुरूपः पाराशर्यस्तपोनिधिः ।
सत्यसन्धः प्रशान्तात्मा वाग्मी सत्यवतीसुतः ॥ १ ॥

कृष्णद्वैपायनो दान्तो बादरायणसञ्ज्ञितः ।
ब्रह्मसूत्रग्रथितवान् भगवान् ज्ञानभास्करः ॥ २ ॥

सर्ववेदान्ततत्त्वज्ञः सर्वज्ञो वेदमूर्तिमान् ।
वेदशाखाव्यसनकृत्कृतकृत्यो महामुनिः ॥ ३ ॥

महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः ।
महाकर्मा महाधर्मा महाभारतकल्पकः ॥ ४ ॥

महापुराणकृत् ज्ञानी ज्ञानविज्ञानभाजनम् ।
चिरञ्जीवी चिदाकारश्चित्तदोषविनाशकः ॥ ५ ॥

वासिष्ठः शक्तिपौत्रश्च शुकदेवगुरुर्गुरुः ।
आषाढपूर्णिमापूज्यः पूर्णचन्द्रनिभाननः ॥ ६ ॥

विश्वनाथस्तुतिकरो विश्ववन्द्यो जगद्गुरुः ।
जितेन्द्रियो जितक्रोधो वैराग्यनिरतः शुचिः ॥ ७ ॥

जैमिन्यादिसदाचार्यः सदाचारसदास्थितः ।
स्थितप्रज्ञः स्थिरमतिः समाधिसंस्थिताशयः ॥ ८ ॥

प्रशान्तिदः प्रसन्नात्मा शङ्करार्यप्रसादकृत् ।
नारायणात्मकः स्तव्यः सर्वलोकहिते रतः ॥ ९ ॥

अचतुर्वदनब्रह्मा द्विभुजापरकेशवः ।
अफाललोचनशिवः परब्रह्मस्वरूपकः ॥ १० ॥

ब्रह्मण्यो ब्राह्मणो ब्रह्मी ब्रह्मविद्याविशारदः ।
ब्रह्मात्मैकत्वविज्ञाता ब्रह्मभूतः सुखात्मकः ॥ ११ ॥

वेदाब्जभास्करो विद्वान् वेदवेदान्तपारगः ।
अपान्तरतमोनामा वेदाचार्यो विचारवान् ॥ १२ ॥

अज्ञानसुप्तिबुद्धात्मा प्रसुप्तानां प्रबोधकः ।
अप्रमत्तोऽप्रमेयात्मा मौनी ब्रह्मपदे रतः ॥ १३ ॥

पूतात्मा सर्वभूतात्मा भूतिमान्भूमिपावनः ।
भूतभव्यभवज्ञाता भूमसंस्थितमानसः ॥ १४ ॥

उत्फुल्लपुण्डरीकाक्षः पुण्डरीकाक्षविग्रहः ।
नवग्रहस्तुतिकरः परिग्रहविवर्जितः ॥ १५ ॥

एकान्तवाससुप्रीतः शमादिनिलयो मुनिः ।
एकदन्तस्वरूपेण लिपिकारी बृहस्पतिः ॥ १६ ॥

भस्मरेखाविलिप्ताङ्गो रुद्राक्षावलिभूषितः ।
ज्ञानमुद्रालसत्पाणिः स्मितवक्त्रो जटाधरः ॥ १७ ॥

गभीरात्मा सुधीरात्मा स्वात्मारामो रमापतिः ।
महात्मा करुणासिन्धुरनिर्देश्यः स्वराजितः ॥ १८ ॥

इति श्रीयोगानन्दसरस्वतीविरचितं श्रीवेदव्यासाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments