Site icon Stotra Nidhi

Sri Vamana Stotram 3 (Vamana Puranam) – श्री वामन स्तोत्रम् – ३ (वामनपुराणे)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

लोमहर्षण उवाच ।
देवदेवो जगद्योनिरयोनिर्जगदादिजः ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ १ ॥

परावराणां परमः परापरसतां गतिः ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।
स्थितिं कर्तुं जगन्नाथं सोऽचिन्त्यो गर्भतां गतः ॥ २ ॥

प्रभुः प्रभूणां परमः पराणा-
-मनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेकः
कर्तुं महात्माऽदितिजोऽवतीर्णः ॥ ३ ॥

न यस्य रुद्रा न च पद्मयोनि-
-र्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं
स वासुदेवः कलयावतीर्णः ॥ ४ ॥

यमक्षरं वेदविदो वदन्ति
विशन्ति यं ज्ञानविधूतपापाः ।
यस्मिन् प्रविष्टा न पुनर्भवन्ति
तं वासुदेवं प्रणमामि देवम् ॥ ५ ॥

भूतान्यशेषाणि यतो भवन्ति
यथोर्मयस्तोयनिधेरजस्रम् ।
लयं च यस्मिन् प्रलये प्रयान्ति
तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥ ६ ॥

न यस्य रूपं न बलं प्रभावो
न च प्रतापः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यै-
-स्तं वासुदेवं प्रणमामि नित्यम् ॥ ७ ॥

रूपस्य चक्षुर्ग्रहणे त्वगेषा
स्पर्शग्रहित्री रसना रसस्य ।
घ्राणं च गन्धग्रहणे नियुक्तं
न घ्राणचक्षुः श्रवणादि तस्य ॥ ८ ॥

स्वयम्प्रकाशः परमार्थतो यः
सर्वेश्वरो वेदितव्यः स युक्त्या ।
शक्यं तमीड्यमनघं च देवं
ग्राह्यं नतोऽहं हरिमीशितारम् ॥ ९ ॥

येनैकदंष्ट्रेण समुद्धृतेयं
धरा चला धारयतीह सर्वम् ।
शेते ग्रसित्वा सकलं जगद्य-
-स्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ १० ॥

अंशावतीर्णेन च येन गर्भे
हृतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीश-
-मशेषसंसारतरोः कुठारम् ॥ ११ ॥

देवो जगद्योनिरयं महात्मा
स षोडशांशेन महाऽसुरेन्द्राः ।
सुरेन्द्रमातुर्जठरं प्रविष्टो
हृतानि वस्तेन बलं वपूंषि ॥ १२ ॥

इति श्रीवामनपुराणे नवविंशतितमोऽध्याये श्री वामन स्तोत्रम् ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments