Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं अस्य श्रीसुब्रह्मण्यमालामहामन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसुब्रह्मण्यः कुमारो देवता, श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
ओं श्रीं ह्रीं क्लीं कुमाराय अङ्गुष्ठाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं शरवणभवाय तर्जनीभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं कार्तिकेयाय मध्यमभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं मयूरवाहनाय अनामिकाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं स्कन्दाय कनिष्ठिकाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं सुब्रह्मण्याय करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं श्रीं ह्रीं क्लीं कुमाराय हृदयाय नमः ।
ओं श्रीं ह्रीं क्लीं शरवणभवाय शिरसे स्वाहा ।
ओं श्रीं ह्रीं क्लीं कार्तिकेयाय शिखायै वषट् ।
ओं श्रीं ह्रीं क्लीं मयूरवाहनाय कवचाय हुम् ।
ओं श्रीं ह्रीं क्लीं स्कन्दाय नेत्रत्रयाय वौषट् ।
ओं श्रीं ह्रीं क्लीं सुब्रह्मण्याय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
बालार्कायुतसन्निभं शिखिरथारूढं च षड्भिर्मुखैः
भास्वद्द्वादशलोचनं मणिमयैराकल्पकैरावृतम् ।
विद्यापुस्तकशक्तिकुक्कुटधनुर्बाणासिखेटान्वितं
भ्राजत्कार्मुकपङ्कजं हृदि महासेनान्यामाद्यं भजे ॥
लमित्यादि पञ्चपूजा ।
ओं श्रीं ह्रीं क्लीं नमो भगवते रुद्रकुमाराय अष्टाङ्गयोगनायकाय महार्हमणिभिरलङ्कृताय क्रौञ्चगिरिविदारणाय तारकसंहारकारणाय शक्तिशूलगदाखड्गखेटकपाशाङ्कुशमुसलप्रासाद्यनेक चित्रायुधालङ्कृत द्वादशभुजाय हारनूपुरकेयूरकटककुण्डलादिविभूषिताय सकलदेवसेनासमूहपरिवृताय महादेवसेनासम्मोहनाय सर्वरुद्रगणसेविताय सकलमातृगणसेविताय रुद्रगाङ्गेयाय शरवणसम्भवाय सर्वलोकशरण्याय, सर्वरोगान् हन हन, दुष्टान् त्रासय त्रासय, सर्वभूतप्रेतपिशाचब्रह्मराक्षसान् उत्सारय उत्सारय, अपस्मारकुष्ठादीन् आकर्षय आकर्षय भञ्जय भञ्जय, वातपित्तश्लेष्मज्वरामयादीन् आशु निवारय निवारय, दुष्टं भीषय भीषय, सर्वलुण्ठाकादीन् उत्सादय उत्सादय, सर्वरौद्रं तनुरुत्सारय उत्सारय, मां रक्ष रक्ष, भगवन् कार्तिकेय प्रसीद प्रसीद ।
ओं नमो भगवते सुब्रह्मण्याय महाबलपराक्रमाय क्रौञ्चगिरिमर्दनाय सर्वासुरप्राणापहरणाय इन्द्राणीमाङ्गल्यरक्षकाय त्रयस्त्रिंशत्कोटिदेवतावन्दिताय महाप्रलयकालाग्निरुद्रकुमाराय दुष्टनिग्रहशिष्टपरिपालकाय वीरमहाबलसर्वप्रचण्डमारुतमहाबलहनुमन्नारसिंह वराहादिसमस्तश्वेतवराहसहिताय इन्द्राग्नियम निरृतिवरुणवायुकुबेरेशानाद्याकाशपातालदिग्बन्धनाय सर्वचण्डग्रहादिनवकोटिगुरुनाथाय नवकोटिदानवशाकिनी डाकिनी वनदुर्गापीडाहरी कालभैरवी गण्डभैरवी फूं फूं दुष्टभैरवीसहित भूतप्रेतपिशाचवेताल ब्रह्मराक्षसादिदुष्टग्रहान् भञ्जय भञ्जय, षण्मुख वज्रधर समस्तग्रहान् नाशय नाशय, समस्तरोगान् नाशय नाशय, समस्तदुरितं नाशय नाशय, ओं रं ह्रां ह्रीं मयूरवाहनाय हुं फट् स्वाहा । ओं सौं श्रीं ह्रीं क्लीं ऐं सौं नं कं सौं शरवणभव ।
अथ कुमारतन्त्रे सुब्रह्मण्यमालामन्त्रः ॥
ओं सुं सुब्रह्मण्याय स्वाहा । ओं कार्तिकेय पार्वतीनन्दन स्कन्द वरद वरद सर्वजनं मे वशमानय स्वाहा । ओं सौं सूं सुब्रह्मण्याय शक्तिहस्ताय ऋग्यजुः सामाथर्वणाय असुरकुलमर्दनाय योगाय योगाधिपतये शान्ताय शान्तरूपिणे शिवाय शिवनन्दनाय षष्ठीप्रियाय सर्वज्ञानहृदयाय षण्मुखाय श्रीं श्रीं ह्रीं क्षं गुह रविकङ्कालाय कालरूपिणे सुरराजाय सुब्रह्मण्याय नमः ।
ओं नमो भगवते महापुरुषाय मयूरवाहनाय गौरीपुत्राय ईशात्मजाय स्कन्दस्वामिने कुमाराय तारकारये षण्मुखाय द्वादशनेत्राय द्वादशभुजाय द्वादशात्मकाय शक्तिहस्ताय सुब्रह्मण्याय ओं नमः स्वाहा ।
उत्तरन्यासः ॥
करन्यासः –
ओं श्रीं ह्रीं क्लीं कुमाराय अङ्गुष्ठाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं शरवणभवाय तर्जनीभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं कार्तिकेयाय मध्यमभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं मयूरवाहनाय अनामिकाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं स्कन्दाय कनिष्ठिकाभ्यां नमः ।
ओं श्रीं ह्रीं क्लीं सुब्रह्मण्याय करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं श्रीं ह्रीं क्लीं कुमाराय हृदयाय नमः ।
ओं श्रीं ह्रीं क्लीं शरवणभवाय शिरसे स्वाहा ।
ओं श्रीं ह्रीं क्लीं कार्तिकेयाय शिखायै वषट् ।
ओं श्रीं ह्रीं क्लीं मयूरवाहनाय कवचाय हुम् ।
ओं श्रीं ह्रीं क्लीं स्कन्दाय नेत्रत्रयाय वौषट् ।
ओं श्रीं ह्रीं क्लीं सुब्रह्मण्याय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
इति श्रीसुब्रह्मण्यमालामन्त्रः ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.