Site icon Stotra Nidhi

Sri Narasimha Panchamruta Stotram (Sri Rama Krutam) – श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥

गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २ ॥

देवाः समस्ताः खलु योगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतोऽस्मि ॥ ३ ॥

वेदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबले कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्ते
तं नारसिंहं शरणं गतोऽस्मि ॥ ४ ॥

ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमेव तं त्वां सततं नतोऽस्मि ॥ ५ ॥

स्वप्नेऽपि नित्यं जगतां त्रयाणां
स्रष्टा च हन्ता विभुरप्रमेयः ।
त्राता त्वमेकस्त्रिविधो विभिन्नः
तं त्वां नृसिंहं सततं नतोऽस्मि ॥ ६ ॥

इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं विभुम् ।
पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि ।
साधु साध्विति तं प्रोचुः देवा ऋषिगणैः सह ॥ ७ ॥

देवाः ऊचुः ।
राघवेण कृतं स्तोत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति ये द्विजवरास्तेषां स्वर्गस्तु शाश्वतः ॥ ८ ॥

इति श्रीराम कृत श्री नृसिंह पञ्चामृत स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments