Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २ ॥
देवाः समस्ताः खलु योगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतोऽस्मि ॥ ३ ॥
वेदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबले कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्ते
तं नारसिंहं शरणं गतोऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमेव तं त्वां सततं नतोऽस्मि ॥ ५ ॥
स्वप्नेऽपि नित्यं जगतां त्रयाणां
स्रष्टा च हन्ता विभुरप्रमेयः ।
त्राता त्वमेकस्त्रिविधो विभिन्नः
तं त्वां नृसिंहं सततं नतोऽस्मि ॥ ६ ॥
इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं विभुम् ।
पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि ।
साधु साध्विति तं प्रोचुः देवा ऋषिगणैः सह ॥ ७ ॥
देवाः ऊचुः ।
राघवेण कृतं स्तोत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति ये द्विजवरास्तेषां स्वर्गस्तु शाश्वतः ॥ ८ ॥
इति श्रीराम कृत श्री नृसिंह पञ्चामृत स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.