Site icon Stotra Nidhi

Sri Matsya Stuti – श्री मत्स्य स्तुतिः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ
अन्तर्लीने जलधिसलिले व्याकुले देवलोके ।
मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि
श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ १ ॥

वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां
अपां नाथः पाथः पृथुललवदुस्थो वियदभूत् ।
निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनः
चलत्काये यस्मिन् स जयति हरिर्मीनवपुषा ॥ २ ॥

जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात्
उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।
यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः
पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ ३ ॥

दिश्याद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं सम्पदं
यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनैः ।
विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसङ्गतैः
गङ्गासागरसङ्गमप्रणयिनी जाता विहायःस्थली ॥ ४ ॥

मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कस्थितिः
पुच्छाच्छोटसमुच्छलज्जलगुरुप्राग्भाररिक्तोदधेः ।
पातालावटमध्यसङ्कटतया पर्याप्तकष्टस्थितेः
वेदोद्धारपरायणस्य सततं नारायणस्य प्रभोः ॥ ५ ॥

जृम्भाविस्तृतवक्त्रपङ्कजविधेर्हृत्वा श्रुतीः सागरे
लीनं त्रस्तसमस्तनक्रनिकरं शङ्खं जघानाजिरे ।
पुच्छोत्क्षिप्तजलोत्करैः प्रतिदिशं सन्तर्प्य यो वै धरां
पायाद्वः स मृणालकोमलतनुर्मीनाभिधानो हरिः ॥ ६ ॥

हंहो मीनतनो हरे किमुदधे किं वेपसे शैत्यतः
स्विन्नः किं वडवानलात्पुलकितः कस्मात् स्वभावादहम् ।
इत्थं सागरकन्यकामुखशशिव्यालोकनेनाधिक-
-प्रोद्यत्कामजचिह्ननिह्नुतिपरः शौरिः शिवायास्तु वः ॥ ७ ॥

पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः
क्रीडां चेत्कलये मनागपि जले पीडा परं यादसाम् ।
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षय-
-क्षोभाकुञ्चितवेष एष भगवान् प्रीणातु मीनाकृतिः ॥ ८ ॥

चन्द्रादित्योरुनेत्रः कमलभवभवस्फारपृष्ठप्रतिष्ठो
भास्वत्कालाग्निजिह्नः पृथुलगलगुहादृष्टनिःशेषविश्वः ।
अद्भिः पुच्छोत्थिताभिश्चकितसुरवधूनेत्रसंसूचिताभिः
मत्स्यश्छिन्नाब्धिवेलं गगनतलमलं क्षालयन्वः पुनातु ॥ ९ ॥

यं दृष्ट्वा मीनरूपं स्फुरदनलशिखायुक्तसंरक्तनेत्रं
लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम् ।
श्वासोच्छ्वासानिलौघैः प्रचलितगगनं पीतवारिं मुरारिं
दिङ्मूढोऽभूत्स शङ्खः स भवतु भवतां भूतये मीनरूपः ॥ १० ॥

दिङ्मूढं तं सुरारिं किल शितदशनैः पीड्यमानं रटन्तं
हृत्वा तीरे पयोधेः करतलकलितं पूरयामास शङ्खम् ।
नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स देवैः
दत्तार्घः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥ ११ ॥

इति श्री मत्स्य स्तुतिः ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments