Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
( श्री लक्ष्मी अष्टोत्तरशतनामावली >> )
देव्युवाच ।
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ।
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
ईश्वर उवाच ।
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २ ॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतरं परम् ॥ ३ ॥
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४ ॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवीप्रत्यक्षदायकम् ॥ ५ ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रृणु ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६ ॥
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यास स इत्यादि प्रकीर्तितः ॥ ७ ॥
ध्यानम् –
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
ओं प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १ ॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ २ ॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कान्तां क्षमां क्षीरोदसम्भवाम् ॥ ३ ॥
[*कामाक्षीं क्रोधसम्भवाम्*]
अनुग्रहपरां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ ४ ॥
नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ ५ ॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ ६ ॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ ७ ॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ ८ ॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ ९ ॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीम् ॥ १० ॥
धनधान्यकरीं सिद्धिं स्रैणसौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ ११ ॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ १२ ॥
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ १३ ॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ १४ ॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ १५ ॥
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मीः प्रसीद सततं नमतां शरण्ये ॥ १६ ॥
त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ १ ॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २ ॥
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् ।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ ३ ॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ ४ ॥
भुक्त्वा तु विपुलान्भोगानस्याः सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये ।
पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ५ ॥
इति श्रीलक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.