Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)
जय कामेशि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १ ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २ ॥
मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३ ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि ।
कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ३ ॥
कालि करालविक्रान्ते कामेश्वरि हरप्रिये ।
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ ४ ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुम्भशुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ ५ ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ६ ॥
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि ।
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ ७ ॥
छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ८ ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ ९ ॥
संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ १० ॥
श्रीकामरूपेश्वरि भास्करप्रभे
प्रकाशिताम्भोजनिभायतानने ।
सुरारिरक्षःस्तुतिपातनोत्सुके
त्रयीमये देवनुते नमामि ॥ ११ ॥
सितासिते रक्तपिशङ्गविग्रहे
रूपाणि यस्याः प्रतिभान्ति तानि ।
विकाररूपा च विकल्पितानि
शुभाशुभानामपि तां नमामि ॥ १२ ॥
कामरूपसमुद्भूते कामपीठावतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १३ ॥
अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि ।
कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १४ ॥
या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणी ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ १५ ॥
दंष्ट्राकरालवदने मुण्डमालोपशोभिते ।
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १६ ॥
चामुण्डे च महाकालि कालि कपालहारिणी ।
पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १७ ॥
चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १८ ॥
इति श्री कामाख्या स्तोत्रम् ।
टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।
प्रभात स्तोत्रनिधि
( पारायण ग्रन्थम् )
इतर देवी स्तोत्राणि पश्यतु ।
మా తదుపరి ప్రచురణ: తెలుగు తాత్పర్యాలతో "శ్రీ బగళాముఖీ స్తోత్రనిధి" పుస్తకము ముద్రించుటకు ఆలోచన చేయుచున్నాము.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.