Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, सकलजननी चतुष्पदा श्रीगायत्री परमात्मा देवता, सर्वोत्कृष्टं परं धाम प्रथमपादो बीजं, द्वितीयः शक्तिः, तृतीयः कीलकं, दशप्रणवसम्युक्ता सव्याहृतिका तुरीयपादो व्यापकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः । न्यासं कृत्वा ध्यायेत् ।
अथ ध्यानम् ।
गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैकवेद्यां
चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ।
सर्वोत्कृष्टं पदं तत्सवितुरनुपदान्ते वरेण्यं शरण्यं
भर्गो देवस्य धीमह्यभिदधति धियो यो नः प्रचोदयात् ॥ १ ॥
इत्यौर्वतेजः ।
साम्राज्यबीजं प्रणवं त्रिपादं
सव्यापसव्यं प्रजपेत्सहस्रकम् ।
सम्पूर्णकामं प्रणवं विभूतिं
तथा भवेद्वाक्यविचित्रवाणी ॥ २ ॥
शुभं शिवं शोभनमस्तु मह्यं
सौभाग्यभोगोत्सवमस्तु नित्यम् ।
प्रकाशविद्यात्रयशास्त्रसर्वं
भजेन्महामन्त्रफलं प्रिये वै ॥ ३ ॥
ब्रह्मास्त्रं ब्रह्मदण्डं शिरसि शिखिमहद्ब्रह्मशीर्षं नमोऽन्तं
सूक्तं पारायणोक्तं प्रणवमथ महावाक्यसिद्धान्तमूलम् ।
तुर्यं त्रीणि द्वितीयं प्रथममनुमहावेदवेदान्तसूक्तं
नित्यं स्मृत्यानुसारं नियमितचरितं मूलमन्त्रं नमोऽन्तम् ॥ ४ ॥
अस्त्रं शस्त्रहतं त्वघोरसहितं दण्डेन वाजीहतं
चादित्यादिहतं शिरोऽन्तसहितं पापक्षयार्थं परम् ।
तुर्यान्त्यादिविलोममन्त्रपठनं बीजं शिखान्तोर्ध्वकं
नित्यं कालनियम्यविप्रविदुषां किं दुष्कृतं भूसुरान् ॥ ५ ॥
नित्यं मुक्तिप्रदं नियम्य पवनं निर्घोषशक्तित्रयं
सम्यग्ज्ञानगुरूपदेशविधिवद्देवीं शिखां तामपि ।
षष्ट्यैकोत्तरसङ्ख्ययानुगतसौषुम्नादिमार्गत्रयीं
ध्यायेन्नित्यसमस्तवेदजननीं देवीं त्रिसन्ध्यामयीम् ॥ ६ ॥
गायत्रीं सकलागमार्थविदुषां सौरस्य बीजेश्वरीं
सर्वाम्नायसमस्तमन्त्रजननीं सर्वज्ञधामेश्वरीम् ।
ब्रह्मादित्रयसम्पुटार्थकरणीं संसारपारायणीं
सन्ध्यां सर्वसमानतन्त्र परया ब्रह्मानुसन्धायिनीम् ॥ ७ ॥
एकद्वित्रिचतुःसमानगणनावर्णाष्टकं पादयोः
पादादौ प्रणवादिमन्त्रपठने मन्त्रत्रयी सम्पुटाम् ।
सन्ध्यायां द्विपदं पठेत्परतरं सायं तुरीयं युतं
नित्यानित्यमनन्तकोटिफलदं प्राप्तं नमस्कुर्महे ॥ ८ ॥
ओजोऽसीति सहोऽस्यहो बलमसि भ्राजोऽसि तेजस्विनी
वर्चस्वी सविताग्निसोमममृतं रूपं परं धीमहि ।
देवानां द्विजवर्यतां मुनिगणे मुक्त्यर्थिनां शान्तिना-
-मोमित्येकमृचं पठन्ति यमिनो यं यं स्मरेत्प्राप्नुयात् ॥ ९ ॥
ओमित्येकमजस्वरूपममलं तत्सप्तधा भाजितं
तारं तन्त्रसमन्वितं परतरे पादत्रयं गर्भितम् ।
आपो ज्योति रसोऽमृतं जनमहः सत्यं तपः स्वर्भुव-
-र्भूयो भूय नमामि भूर्भुवःस्वरोमेतैर्महामन्त्रकम् ॥ १० ॥
आदौ बिन्दुमनुस्मरन् परतरे बाला त्रिवर्णोच्चरन्
व्याहृत्यादिसबिन्दुयुक्तत्रिपदातारत्रयं तुर्यकम् ।
आरोहादवरोहतः क्रमगता श्रीकुण्डलीत्थं स्थिता
देवी मानसपङ्कजे त्रिनयना पञ्चानना पातु माम् ॥ ११ ॥
सर्वे सर्ववशे समस्तसमये सत्यात्मिके सात्त्विके
सावित्रीसवितात्मिके शशियुते साङ्ख्यायनी गोत्रजे ।
सन्ध्यात्रीण्युपकल्प्य सङ्ग्रहविधिः सन्ध्याभिधानामके
गायत्रीप्रणवादिमन्त्रगुरुणा सम्प्राप्य तस्मै नमः ॥ १२ ॥
क्षेमं दिव्यमनोरथाः परतरे चेतः समाधीयितां
ज्ञानं नित्यवरेण्यमेतदमलं देवस्य भर्गो धियन् ।
मोक्षश्रीर्विजयार्थिनोऽथ सवितुः श्रेष्ठं विधिस्तत्पदं
प्रज्ञा मेध प्रचोदयात्प्रतिदिनं यो नः पदं पातु माम् ॥ १३ ॥
सत्यं तत्सवितुर्वरेण्यविरलं विश्वादिमायात्मकं
सर्वाद्यं प्रतिपादपादरमया तारं तथा मन्मथम् ।
तुर्यान्यत्रितयं द्वितीयमपरं सम्योगसव्याहृतिं
सर्वाम्नायमनोन्मनीं मनसिजां ध्यायामि देवीं पराम् ॥ १४ ॥
आदौ गायत्रिमन्त्रं गुरुकृतनियमं धर्मकर्मानुकूलं
सर्वाद्यं सारभूतं सकलमनुमयं देवतानामगम्यम् ।
देवानां पूर्वदेवं द्विजकुलमुनिभिः सिद्धविद्याधराद्यैः
को वा वक्तुं समर्थस्तव मनुमहिमाबीजराजादिमूलम् ॥ १५ ॥
गायत्रीं त्रिपदां त्रिबीजसहितां त्रिव्याहृतिं त्रिपदां
त्रिब्रह्मा त्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् ।
साङ्ख्यादित्रयरूपिणीं त्रिनयनां मातृत्रयीं तत्परां
त्रैलोक्य त्रिदशत्रिकोटिसहितां सन्ध्यां त्रयीं तां नुमः ॥ १६ ॥
ओमित्येतत्त्रिमात्रा त्रिभुवनकरणं त्रिस्वरं वह्निरूपं
त्रीणि त्रीणि त्रिपादं त्रिगुणगुणमयं त्रैपुरान्तं त्रिसूक्तम् ।
तत्त्वानां पूर्वशक्तिं द्वितयगुरुपदं पीठयन्त्रात्मकं तं
तस्मादेतत्त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥ १७ ॥
स्वस्ति श्रद्धाऽतिमेधा मधुमतिमधुरः संशयः प्रज्ञकान्ति-
-र्विद्याबुद्धिर्बलं श्रीरतुलधनपतिः सौम्यवाक्यानुवृत्तिः ।
मेधा प्रज्ञा प्रतिष्ठा मृदुपतिमधुरापूर्णविद्या प्रपूर्णं
प्राप्तं प्रत्यूषचिन्त्यं प्रणवपरवशात्प्राणिनां नित्यकर्म ॥ १८ ॥
पञ्चाशद्वर्णमध्ये प्रणवपरयुते मन्त्रमाद्यं नमोन्तं
सर्वं सव्यापसव्यं शतगुणमभितो वर्णमष्टोत्तरं ते ।
एवं नित्यं प्रजप्तं त्रिभुवनसहितं तुर्यमन्त्रं त्रिपादं
ज्ञानं विज्ञानगम्यं गगनसुसदृशं ध्यायते यः स मुक्तः ॥ १९ ॥
आदिक्षान्तसबिन्दुयुक्तसहितं मेरुं क्षकारात्मकं
व्यस्ताव्यस्तसमस्तवर्गसहितं पूर्णं शताष्टोत्तरम् ।
गायत्रीं जपतां त्रिकालसहितां नित्यं सनैमित्तिकं
एवं जाप्यफलं शिवेन कथितं सद्भोगमोक्षप्रदम् ॥ २० ॥
सप्तव्याहृतिसप्ततारविकृतिः सत्यं वरेण्यं धृतिः
सर्वं तत्सवितुश्च धीमहि महाभर्गस्य देवं भजे ।
धाम्नो धाम समाधिधारणमहान् धीमत्पदं ध्यायते
ओं तत्सर्वमनुप्रपूर्णदशकं पादत्रयं केवलम् ॥ २१ ॥
विज्ञानं विलसद्विवेकवचसः प्रज्ञानुसन्धारिणीं
श्रद्धामेध्ययशः शिरः सुमनसः स्वस्ति श्रियं त्वां सदा ।
आयुष्यं धनधान्यलक्ष्मिमतुलं देवीं कटाक्षं परं
तत्काले सकलार्थसाधनमहान्मुक्तिर्महत्वं पदम् ॥ २२ ॥
पृथ्वी गन्धोऽर्चनायां नभसि कुसुमता वायुधूपप्रकर्षो
वह्निर्दीपप्रकाशो जलममृतमयं नित्यसङ्कल्पपूजा ।
एतत्सर्वं निवेद्यं सुखवसति हृदि सर्वदा दम्पतीनां
त्वं सर्वज्ञ शिवं कुरुष्व ममता नाहं त्वया ज्ञेयसि ॥ २३ ॥
सौम्यं सौभाग्यहेतुं सकलसुखकरं सर्वसौख्यं समस्तं
सत्यं सद्भोगनित्यं सुखजनसुहृदं सुन्दरं श्रीसमस्तम् ।
सौमङ्गल्यं समग्रं सकलशुभकरं स्वस्तिवाचं समस्तं
सर्वाद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तुमध्यासमस्तम् ॥ २४ ॥
गायत्रीपदपञ्चपञ्चप्रणवद्वन्द्वं त्रिधा सम्पुटं
सृष्ट्यादिक्रममन्त्रजाप्यदशकं देवीपदं क्षुत्त्रयम् ।
मन्त्रादिस्थितिकेषु सम्पुटमिदं श्रीमातृकावेष्टितं
वर्णान्त्यादिविलोममन्त्रजपनं संहारसम्मोहनम् ॥ २५ ॥
भूराद्यं भूर्भुवस्वस्त्रिपदपदयुतं त्र्यक्षमाद्यन्तयोज्यं
सृष्टिस्थित्यन्तकार्यं क्रमशिखिसकलं सर्वमन्त्रं प्रशस्तम् ।
सर्वाङ्गं मातृकाणां मनुमयवपुषं मन्त्रयोगं प्रयुक्तं
संहारं क्षादिवर्णं वसुशतगणनं मन्त्रराजं नमामि ॥ २६ ॥
विश्वामित्रमुदाहृतं हितकरं सर्वार्थसिद्धिप्रदं
स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः ।
वेदानां विधिवादमन्त्रसकलं सिद्धिप्रदं सम्पदां
सम्प्राप्नोति परत्र सर्वसुखदं चायुष्यमारोग्यताम् ॥ २७ ॥
इति श्रीविश्वामित्र कृत श्री गायत्री स्तवराजः ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.