Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तत्कारं चम्पकं पीतं ब्रह्मविष्णुशिवात्मकम् ।
शान्तं पद्मासनारूढं ध्यायेत् स्वस्थान संस्थितम् ॥ १ ॥
सकारं चिन्तयेच्छान्तं अतसीपुष्पसन्निभम् ।
पद्ममध्यस्थितं काम्यमुपपातकनाशनम् ॥ २ ॥
विकारं कपिलं चिन्त्यं कमलासनसंस्थितम् ।
ध्यायेच्छान्तं द्विजश्रेष्ठो महापातकनाशनम् ॥ ३ ॥
तुकारं चिन्तयेत्प्राज्ञ इन्द्रनीलसमप्रभम् ।
निर्दहेत्सर्वदुःखस्तु ग्रहरोगसमुद्भवम् ॥ ४ ॥
वकारं वह्निदीप्ताभं चिन्तयित्वा विचक्षणः ।
भ्रूणहत्याकृतं पापं तक्षणादेव नाशयेत् ॥ ५ ॥
रेकारं विमलं ध्यायेच्छुद्धस्फटिकसन्निभम् ।
पापं नश्यति तत् क्षिप्रमगम्यागमनोद्भवम् ॥ ६ ॥
णिकारं चिन्तयेद्योगी विद्युद्वल्लीसमप्रभम् ।
अभक्ष्यभक्षजं पापं तत्क्षणादेव नश्यति ॥ ७ ॥
यङ्कारं तारकावर्णमिन्दुशेखरभूषितम् ।
योगिनां वरदं ध्यायेद्ब्रह्महत्याघनाशनम् ॥ ८ ॥
भकारं कृष्णवर्णं तु नीलमेघसमप्रभम् ।
ध्यात्वा पुरुषहत्यादि पापं नाशयति द्विजः ॥ ९ ॥
र्गोकारं रक्तवर्णं तु कमलासन संस्थितम् ।
तं गोहत्याकृतं पापं नाशयेच्च विचिन्तयन् ॥ १० ॥
देकारं मकरश्यामं कमलासनसंस्थितम् ।
चिन्तयेत्सततं योगी स्त्रीहत्यादहनं परम् ॥ ११ ॥
वकारं शुक्लवर्णं तु जाजीपुष्पसमप्रभम् ।
गुरुहत्या कृतं पापं ध्यात्वा दहति तत्क्षणात् ॥ १२ ॥
स्यकारं च तदा पीतं सुवर्ण सदृशप्रभम् ।
मनसा चिन्तितं पापं ध्यात्वा दहति निश्चयम् ॥ १३ ॥
धीकारं चिन्तयेच्छुभ्रं कुन्दपुष्पसमप्रभम् ।
पितृमातृवधात्पापान्मुच्यते नात्र संशयः ॥ १४ ॥
मकारं पद्मरागाभां चिन्तयेद्दीप्ततेजसम् ।
पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ १५ ॥
हिकारं शङ्खवर्णं च पूर्णचन्द्रसमप्रभम् ।
अशेषपापदहनं ध्यायेन्नित्यं विचक्षणः ॥ १६ ॥
धिकारं पाण्डुरं ध्यायेत्पद्मस्योपरिसंस्थितम् ।
प्रतिग्रहकृतं पापं तत्क्षणादेव नश्यति ॥ १७ ॥
योकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ।
ध्यात्वा प्राणिवधं पापं दहत्यग्निरिवेन्धनम् ॥ १८ ॥
द्वितीयच्चैव यः प्राक्तो योकारो रक्तसन्निभः ।
निर्दहेत्सर्वपापानि नान्यैः पापैश्च लिप्यते ॥ १९ ॥
नकारं तु मुखं पूर्वमादित्योदयसन्निभम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेदैश्वरं परम् ॥ २० ॥
नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेद्वैष्णवं पदम् ॥ २१ ॥
श्वेतवर्णं तु तत्पीतं चोकारं पश्चिमाननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ रुद्रेण सहमोदते ॥ २२ ॥
शुक्लवर्णेन्दुसङ्काशं दकारं चोत्तराननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेद्ब्रह्मणःपदम् ॥ २३ ॥
यात्कारस्तु शिरः प्रोक्तश्चतुर्थवदनप्रभः ।
प्रत्यक्ष फलदो ब्रह्मा विष्णु रुद्रात्मकः स्मृतः ॥ २४ ॥
एवं ध्यात्वा तु मेधावी जपं होमं करोति यः ।
न भवेत्पातकं तस्य अमृतं किं न विद्यते ।
साक्षाद्भवत्यसौ ब्रह्मा स्वयम्भूः परमेश्वरः ॥ २५ ॥
इति श्री गायत्र्यक्षरवल्ली स्तोत्रम् ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.