Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीशुक उवाच ।
महादेव महादेव देवदेव महेश्वर ।
दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १ ॥
तदस्य वद माहात्म्यं देवदेव दयानिधे ।
दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ २ ॥
जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ।
तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ ३ ॥
श्रीमहादेव उवाच ।
शृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् । [दिव्यं]
यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ ४ ॥
दत्तं सनातनं ब्रह्म निर्विकारं निरञ्जनम् ।
आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ ५ ॥
नामरूपक्रियातीतं निःसङ्गं देववन्दितम् ।
नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ ६ ॥
परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् ।
निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ ७ ॥
ब्रह्मा विष्णुः शिवः साक्षाद्गोविन्दो गतिदायकः ।
पीताम्बरधरो देवो माधवः सुरसेवितः ॥ ८ ॥
मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः ।
ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ ९ ॥
गया काशी कुरुक्षेत्रं प्रयागं बद्रिकाश्रमम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १० ॥
गोमती जाह्नवी भीमा गण्डकी च सरस्वती ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ११ ॥
सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी । [जल]
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १२ ॥
ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १३ ॥
नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १४ ॥
अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १५ ॥
द्वादश ज्योतिर्लिङ्गानि वाराहे पुष्करे तथा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १६ ॥
ज्वालामुखी हिङ्गुला च सप्तशृङ्गस्तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १७ ॥
अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १८ ॥
अहोबिलं त्रिपथगां गङ्गा सागरमेव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १९ ॥
करवीरमहास्थानं रङ्गनाथं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २० ॥
एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २१ ॥
शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २२ ॥
व्रतं निष्ठा तपो दानं सामगानं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २३ ॥
मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २४ ॥
अन्नहोमादिकं दानं मेदिन्यश्व गजान् वृषान् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २५ ॥
माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २६ ॥
अश्वमेधसहस्राणि मातापितृप्रपोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २७ ॥
अमितं पोषणं पुण्यमुपकारं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २८ ॥
जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २९ ॥
सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३० ॥
शास्त्रषट्कं पुराणानि अष्टौ व्याकरणानि च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३१ ॥
सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगाः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३२ ॥
कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३३ ॥
वापी कूप तटाकानि काननारोपणानि च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३४ ॥
अश्वत्थ तुलसी धात्री सेवते यो नरः सदा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३५ ॥
शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३६ ॥
गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ।
प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३७ ॥
स्वर्णस्तेयं सुरापानं मातुर्गमनकिल्बिषम् ।
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३८ ॥
स्त्रीहत्यादिकृतं पापं बालहत्यास्तथैव च ।
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३९ ॥
प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ।
ब्रह्मत्वं लभते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ ४० ॥
कलिदोषविनाशार्थं जपेदेकाग्रमानसः ।
श्रीगुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ ४१ ॥
दत्त दत्त इदं वाक्यं तारकं सर्वदेहिनाम् ।
श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ ४२ ॥
केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् ।
गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ ४३ ॥
निरञ्जनं निराकारं देवदेवं जनार्दनम् ।
मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ ४४ ॥
आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ।
सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ ४५ ॥
नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् ।
अप्रमेयं सुरानन्दं नमो दत्तं दिगम्बरम् ॥ ४६ ॥
योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः ।
अनसूयात्मजो देवो देवतागतिदायकः ॥ ४७ ॥
गोपनीयं प्रयत्नेन अयं सुरमुनीश्वरैः ।
समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ ४८ ॥
नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः ।
गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ ४९ ॥
वामदेवेन दक्षेण अत्रि भार्गव मुद्गलैः ।
वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ ५० ॥
विनायकेन रुद्रेण महासेनेन वै सदा ।
मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ ५१ ॥
मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः ।
अङ्गिराकृत पौलस्त्य भृगु कश्यप जैमिनी ॥ ५२ ॥
गुरोः स्तवमधीयानो विजयी सर्वदा भवेत् ।
गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ ५३ ॥
गुरोः परतरं नास्ति सत्यं सत्यं न संशयः ।
गुरोः पादोदकं पीत्वा गुरोर्नाम सदा जपेत् ॥ ५४ ॥
तेऽपि सन्न्यासिनो ज्ञेयाः इतरे वेषधारिणः ।
गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ ५५ ॥
गुरुस्तवं न जानाति गुरुनाम मुखे न हि ।
पशुतुल्यं विजानीयात् सत्यं सत्यं महामुने ॥ ५६ ॥
इदं स्तोत्रं महद्दिव्यं स्तवराजं मनोहरम् ।
पठनाच्छ्रवणाद्वापि सर्वान् कामानवाप्नुयात् ॥ ५७ ॥
इति श्रीरुद्रयामले श्रीमन्महादेवशुकसंवादे श्री दत्तात्रेय स्तवराजः ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.