Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
श्री महागणपति लघु षोडशोपचार पूजा पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मेधा प्रज्ञा अभिवृद्धिद्वारा ब्रह्मज्ञानप्राप्त्यर्थं मम इष्टकाम्यार्थसिद्ध्यर्थं श्रीदक्षिणामूर्ति सद्योजातविधानेन षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्टाभिरामः ।
व्याख्यापीठेनिषण्णा मुनिवरनिकरैः सेव्यमान प्रसन्नः
सव्यालकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिमीशः ॥
ओं श्रीदक्षिणामूर्तये नमः । ध्यायामि ध्यानम् समर्पयामि ।
आवाहनम् –
ओं स॒द्योजा॒तं प्र॑पद्या॒मि ।
आवाहये सुन्दरनागभूषं
विज्ञानमुद्राञ्चित पञ्चशाखम् ।
भस्माङ्गरागेण विराजमानं
श्रीदक्षिणामूर्ति महात्मरूपम् ॥
ओं श्रीदक्षिणामूर्तये नमः । आवाहनं समर्पयामि ।
आसनम् –
ओं भवे भ॑वे॒न ।
सुवर्णरत्नामलवज्रनील-
-माणिक्यमुक्तामणियुक्तपीठे ।
स्थिरो भव त्वं वरदो भव त्वं
संस्थापयामीश्वर दक्षिणास्यम् ॥
ओं श्रीदक्षिणामूर्तये नमः । रत्न सिंहासनं समर्पयामि ।
पाद्यम् –
ओं भवे भ॑वे॒न ।
कस्तूरिकामिश्रमिदं गृहाण
रुद्राक्षमालाभरणाङ्किताङ्ग ।
कालत्रयाबाध्यजगन्निवास
पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥
ओं श्रीदक्षिणामूर्तये नमः । पाद्यं समर्पयामि ।
अर्घ्यम् –
ओं अति॑ भवे भवस्व॒माम् ।
श्रीजाह्नवीनिर्मलतोयमीश
चार्घ्यार्थमानीय समर्पयिष्ये ।
प्रसन्नवक्त्राम्बुजलोकवन्द्य
कालत्रयेहं तव दक्षिणास्यम् ॥
ओं श्रीदक्षिणामूर्तये नमः । अर्घ्यं समर्पयामि ।
आचमनम् –
ओं भ॒वोद्भ॑वाय॒ नमः ।
मुदाहमानन्द सुरेन्द्रवन्द्य
गङ्गानदीतोयमिदं हि दास्ये ।
तवाधुना चाचमनं कुरुष्व
श्रीदक्षिणामूर्ति गुरुस्वरूप ॥
ओं श्रीदक्षिणामूर्तये नमः । आचमनीयं समर्पयामि ।
पञ्चामृतस्नानम् –
सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥
शुद्धोदक स्नानम् –
ओं वामदेवाय नमः ।
वेदान्तवेद्याखिलशूलपाणे
ब्रह्मामरोपेन्द्रसुरेन्द्रवन्द्य ।
स्नानं कुरुष्वामलगाङ्गतोये
सुवासितेस्मिन् कुरु दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । स्नानं समर्पयामि ।
वस्त्रम् –
ओं ज्ये॒ष्ठाय॒ नमः ।
कौशेयवस्त्रेण च मार्जयामि
देवेश्वराङ्गानि तवामलानि ।
प्रज्ञाख्यलोकत्रितयप्रसन्न
श्रीदक्षिणास्याखिललोकपाल ॥
ओं श्रीदक्षिणामूर्तये नमः । वस्त्रं समर्पयामि ।
यज्ञोपवीतम् –
ओं श्रे॒ष्ठाय॒ नमः ।
सुवर्णतन्तूद्भवमग्र्यमीश
यज्ञोपवीतं परिधत्स्वदेव ।
विशालबाहूदरपञ्चवक्त्र
श्रीदक्षिणामूर्ति सुखस्वरूप ॥
ओं श्रीदक्षिणामूर्तये नमः । यज्ञोपवीतं समर्पयामि ।
आभरणम् –
ओं रु॒द्राय॒ नमः ।
सुरत्नदाङ्गेय किरीटकुण्डलं
हाराङ्गुलीकङ्कणमेखलावृतम् ।
खण्डेन्दुचूडामृतपात्रयुक्तं
श्रीदक्षिणामूर्तिमहं भजामि ॥
ओं श्रीदक्षिणामूर्तये नमः । आभरणानि समर्पयामि ।
गन्धम् –
ओं काला॑य॒ नम॑: ।
कस्तूरिकाचन्दनकुङ्कुमादि-
-विमिश्रगन्धं मणिपात्रसंस्थम् ।
समर्पयिष्यामि मुदा महात्मन्
गौरीमनोवस्थितदक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । गन्धं समर्पयामि ।
अक्षतान् –
ओं कल॑विकरणाय॒ नमः ।
शुभ्राक्षतैः शुभ्रतिलैः सुमिश्रैः
सम्पूजयिष्ये भवतः परात्मन् ।
तदेकनिष्ठेन समाधिनाथ
सदाहमानन्द सुदक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । अक्षतान् समर्पयामि ।
पुष्पम् –
ओं बल॑ विकरणाय॒ नमः ।
सुगन्धीनि सुपुष्पाणि जाजीबिल्वार्क चम्पकैः ।
निर्मितं पुष्पमालञ्च नीलकण्ठ गृहाण भो ॥
ओं श्रीदक्षिणामूर्तये नमः । पुष्पाणि समर्पयामि ।
अष्टोत्तरशतनाम पूजा –
श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली पश्यतु ॥
ओं श्रीदक्षिणामूर्तये नमः । अष्टोत्तरशतनामपूजां समर्पयामि ।
धूपम् –
ओं बला॑य॒ नमः ।
दशाङ्गधूपं परिकल्पयामि
नानासुगन्धान्वितमाज्ययुक्तम् ।
मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य
दिगम्बर स्वीकुरु दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । धूपं समर्पयामि ।
दीपम् –
ओं बल॑ प्रमथनाय॒ नमः ।
आज्येन संमिश्रमिमं प्रदीपं
वर्तित्रयेणान्वितमग्नियुक्तम् ।
गृहाण योगीन्द्र मयार्पितं भो
श्रीदक्षिणामूर्तिगुरो प्रसीद ॥
ओं श्रीदक्षिणामूर्तये नमः । दीपं समर्पयामि ।
नैवेद्यम् –
ओं सर्व॑ भूत दमनाय॒ नमः ।
शाल्योदनं निर्मलसूपशाक-
-भक्ष्याज्यसम्युक्तदधिप्रसिक्तम् ।
कपित्थ सद्राक्षफलैश्च चूतैः
सापोशनं भक्षय दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । नैवेद्यं समर्पयामि ।
ताम्बूलम् –
ओं म॒नोन्म॑नाय॒ नमः ।
ताम्बूलमद्य प्रतिसङ्गृहाण
कर्पूरमुक्तामणिचूर्णयुक्तम् ।
सुपर्णपर्णान्वितपूगखण्ड-
-मनेकरूपाकृति दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । ताम्बूलं समर्पयामि ।
नीराजनम् –
ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
नीराजनं निर्मलपात्रसंस्थं
कर्पूरसन्दीपितमच्छरूपम् ।
करोमि वामेश तवोपरीदं
व्योमाकृते शङ्कर दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । नीराजनं समर्पयामि ।
मन्त्रपुष्पम् –
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओं श्रीदक्षिणामूर्तये नमः । मन्त्रपुष्पं समर्पयामि ।
पुष्पाञ्जलि –
मन्दारपङ्केरुहकुन्दजाजी-
-सुगन्धपुष्पाञ्जलिमर्पयामि ।
त्रिशूल ढक्काञ्चित पाणियुग्म
ते दक्षिणामूर्ति विरूपधारिन् ॥
ओं श्रीदक्षिणामूर्तये नमः । पुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिण –
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
प्रदक्षिणं सम्यगहं करिष्ये
कालत्रये त्वां करुणाभिरामम् ।
शिवामनोनाथ ममापराधं
क्षमस्व यज्ञेश्वर दक्षिणास्य ॥
ओं श्रीदक्षिणामूर्तये नमः । प्रदक्षिणनमस्कारान् समर्पयामि ।
सर्वोपचाराः –
ओं श्रीदक्षिणामूर्तये नमः छत्रमाच्छादयामि ।
ओं श्रीदक्षिणामूर्तये नमः चामरैर्वीजयामि ।
ओं श्रीदक्षिणामूर्तये नमः नृत्यं दर्शयामि ।
ओं श्रीदक्षिणामूर्तये नमः गीतं श्रावयामि ।
ओं श्रीदक्षिणामूर्तये नमः आन्दोलिकानारोहयामि ।
ओं श्रीदक्षिणामूर्तये नमः अश्वानारोहयामि ।
ओं श्रीदक्षिणामूर्तये नमः गजानारोहयामि ।
समस्त राजोपचार देवोपचारान् समर्पयामि ॥
प्रार्थना –
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥
नमो नमः पापविनाशनाय
नमो नमः कञ्जभवार्चिताय ।
नमो नमः कृष्णहृदिस्थिताय
श्रीदक्षिणामूर्ति महेश्वराय ॥
ओं श्रीदक्षिणामूर्तये नमः । प्रार्थना नमस्कारान् समर्पयामि ।
क्षमाप्रार्थना –
यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे महेश्वरम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया सद्योजात विधिना ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री दक्षिणामूर्तिः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥
एतत्फलं परमेश्वरार्पणमस्तु ॥
तीर्थम् –
अकालमृत्युहरणं सर्वव्याधि निवारणम् ।
समस्तपापक्षयकरं श्रीदक्षिणामूर्ति पादोदकं पावनं शुभम् ॥
ओं शान्तिः शान्तिः शान्तिः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.