Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री दक्षिणामूर्तिरुवाच ।
अन्नपूर्णामनुं वक्ष्ये विद्याप्रत्यङ्गमीश्वरी ।
यस्य श्रवणमात्रेण अलक्ष्मीर्नाशमाप्नुयात् ॥ १ ॥
प्रणवं पूर्वमुच्चार्य मायां श्रियमथोच्चरेत् ।
कामं नमः पदं प्रोक्तं पदं भगवतीत्यथ ॥ २ ॥
माहेश्वरी पदं पश्चादन्नपूर्णेत्यथोच्चरेत् ।
उत्तरे वह्निदयितां मन्त्र एष उदीरितः ॥ ३ ॥
ऋषिः ब्रह्मास्य मन्त्रस्य गायत्री छन्द ईरितम् ।
अन्नपूर्णेश्वरीदेवी देवता प्रोच्यते बुधैः ॥ ४ ॥
मायाबीजं बीजमाहुः लक्ष्मीशक्तिरितीरिता ।
कीलकं मदनं प्राहुर्मायया न्यासमाचरेत् ॥ ५ ॥
रक्तां विचित्रवासनां नवचन्द्रजूटा-
-मन्नप्रदाननिरतां स्तनभारनम्राम् ।
अन्नप्रदाननिरतां नवहेमवस्त्रा-
-मम्बां भजे कनकमौक्तिकमाल्यशोभाम् ॥ ६ ॥
नृत्यन्तमिन्दिशकलाभरणं विलोक्य
ह्यष्टां भजे भगवतीं भवदुःखहन्त्रीम् ।
आदाय दक्षिणकरेण सुवर्णदर्पं
दुग्धान्नपूर्णमितरेण च रत्नपात्रम् ॥ ७ ॥
एवं ध्यात्वा महादेवीं लक्षमेकं जपेन्मनुम् ।
दशांशमन्नं जुहुयान्मन्त्रसिद्धिर्भविष्यति ॥ ८ ॥
एवं सिद्धस्य मन्त्रस्य प्रयोगाच्छृणु पार्वति ।
लक्षमेकं जपेन्मन्त्रं सहस्रैकं हविर्हुनेत् ॥ ९ ॥
महतीं श्रियमाप्नोति कुबेरत्रयसन्निभाम् ।
जप्त्वैकलक्षं मन्त्रज्ञो हुनेदन्नं दशांशकम् ॥ १० ॥
तत्कुलेन्नसमृद्धिस्स्यादक्षय्यं नात्र संशयः ।
अन्नं स्पृष्ट्वा जपेन्मन्त्रं नित्यं वारचतुष्टयम् ॥ ११ ॥
अन्नराशिमवाप्नोति स्वमलव्यापिनीमपि ।
सहस्रं प्रजपेद्यस्तु मन्त्रमेतं नरोत्तमः ॥ १२
इह भोगान्यथाकामान्भुक्त्वान्ते मुक्तिमाप्नुयात् ।
कुले न जायते तस्य दारिद्र्यं कलहावलिः ॥ १३ ॥
न कदाचिदवाप्नोति दारिद्र्यं परमेश्वरि ।
पलाशपुष्पैर्हवनमयुतं यस्समाचरेत् ॥ १४ ॥
स लब्ध्वा महतीं कान्तिं वशीकुर्याज्जगत्रयम् ।
पयसा हवनं मर्त्यो य आचरति कालिकः ॥ १५ ॥
तद्गेहे पशुवृद्धिस्स्याद्गावश्च बहुदुग्धदाः ।
एवं मन्त्रं जपेन्मर्त्यो न कदाचिल्लभेद्भयम् ॥ १६ ॥
असौख्यमश्रियं दुःखं संशयो नात्र विद्यते ।
हविष्येण हुनेद्यस्तु नियुतं मानवोत्तमः ॥ १७ ॥
सर्वान्कामानवाप्नोति दुर्लभानप्यसंशयः ।
अन्नपूर्णाप्रयोगोयमुक्तो भक्तेष्टदायकः ।
किमन्यदिच्छसि श्रोतुं भूयो मे वद पार्वति ॥ १८ ॥
इति श्रीमहात्रिपुरसिद्धान्ते अन्नपूर्णा मन्त्रस्तवः ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.