Site icon Stotra Nidhi

Sri Anagha Deva Ashtottara Shatanama Stotram – श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

दत्तात्रेयायाऽनघाय त्रिविधाघविदारिणे ।
लक्ष्मीरूपाऽनघेशाय योगाधीशाय ते नमः ॥ १ ॥

द्राम्बीजध्यानगम्याय विज्ञेयाय नमो नमः ।
गर्भादितारणायाऽस्तु दत्तात्रेयाय ते नमः ॥ २ ॥

बीजस्थवटतुल्याय चैकार्णमनुगामिने ।
षडर्णमनुपालाय योगसम्पत्कराय ते ॥ ३ ॥

अष्टार्णमनुगम्याय पूर्णाऽऽनन्दवपुष्मते ।
द्वादशाक्षरमन्त्रस्थायाऽऽत्मसायुज्यदायिने ॥ ४ ॥

षोडशार्णमनुस्थाय सच्चिदानन्दशालिने ।
दत्तात्रेयाय हरये कृष्णायाऽस्तु नमो नमः ॥ ५ ॥

उन्मत्तायाऽऽनन्ददायकाय तेऽस्तु नमो नमः ।
दिगम्बराय मुनये बालायाऽस्तु नमो नमः ॥ ६ ॥

पिशाचाय च ते ज्ञानसागराय च ते नमः ।
आब्रह्मजन्मदोषौघप्रणाशाय नमो नमः ॥ ७ ॥

सर्वोपकारिणे मोक्षदायिने ते नमो नमः ।
ओंरूपिणे भगवते दत्तात्रेयाय ते नमः ॥ ८ ॥

स्मृतिमात्रसुतुष्टाय महाभयनिवारिणे ।
महाज्ञानप्रदायाऽस्तु चिदानन्दाऽऽत्मने नमः ॥ ९ ॥

बालोन्मत्तपिशाचादिवेषाय च नमो नमः ।
नमो महायोगिने चाप्यवधूताय ते नमः ॥ १० ॥

अनसूयाऽऽनन्ददाय चाऽत्रिपुत्राय ते नमः ।
सर्वकामफलानीकप्रदात्रे ते नमो नमः ॥ ११ ॥

प्रणवाक्षरवेद्याय भवबन्धविमोचिने ।
ह्रीम्बीजाक्षरपाराय सर्वैश्वर्यप्रदायिने ॥ १२ ॥

क्रोम्बीजजपतुष्टाय साध्याकर्षणदायिने ।
सौर्बीजप्रीतमनसे मनःसङ्क्षोभहारिणे ॥ १३ ॥

ऐम्बीजपरितुष्टाय वाक्प्रदाय नमो नमः ।
क्लीम्बीजसमुपास्याय त्रिजगद्वश्यकारिणे ॥ १४ ॥

श्रीमुपासनतुष्टाय महासम्पत्प्रदाय च ।
ग्लौमक्षरसुवेद्याय भूसाम्राज्यप्रदायिने ॥ १५ ॥

द्राम्बीजाक्षरवासाय महते चिरजीविने ।
नानाबीजाक्षरोपास्य नानाशक्तियुजे नमः ॥ १६ ॥

समस्तगुणसम्पन्नायाऽन्तःशत्रुविदाहिने ।
भूतग्रहोच्चाटनाय सर्वव्याधिहराय च ॥ १७ ॥

पराभिचारशमनायाऽऽधिव्याधिनिवारिणे ।
दुःखत्रयहरायाऽस्तु दारिद्र्यद्राविणे नमः ॥ १८ ॥

देहदार्ढ्याभिपोषाय चित्तसन्तोषकारिणे ।
सर्वमन्त्रस्वरूपाय सर्वयन्त्रस्वरूपिणे ॥ १९ ॥

सर्वतन्त्राऽऽत्मकायाऽस्तु सर्वपल्लवरूपिणे ।
शिवायोपनिषद्वेद्यायाऽस्तु दत्ताय ते नमः ॥ २० ॥

नमो भगवते तेऽस्तु दत्तात्रेयाय ते नमः ।
महागम्भीररूपाय वैकुण्ठवासिने नमः ॥ २१ ॥

शङ्खचक्रगदाशूलधारिणे वेणुनादिने ।
दुष्टसंहारकायाऽथ शिष्टसम्पालकाय च ॥ २२ ॥

नारायणायाऽस्त्रधरायाऽस्तु चिद्रूपिणे नमः ।
प्रज्ञारूपाय चाऽऽनन्दरूपिणे ब्रह्मरूपिणे ॥ २३ ॥

महावाक्यप्रबोधाय तत्त्वायाऽस्तु नमो नमः ।
नमः सकलकर्मौघनिर्मिताय नमो नमः ॥ २४ ॥

नमस्ते सच्चिदानन्दरूपाय च नमो नमः ।
नमः सकललोकौघसञ्चाराय नमो नमः ॥ २५ ॥

नमः सकलदेवौघवशीकृतिकराय च ।
कुटुम्बवृद्धिदायाऽस्तु गुडपानकतोषिणे ॥ २६ ॥

पञ्चकर्जाय सुप्रीतायाऽस्तु कन्दफलादिने ।
नमः सद्गुरवे श्रीमद्दत्तात्रेयाय ते नमः ॥ २७ ॥

इत्येवमनघेशस्य दत्तात्रेयस्य सद्गुरोः ।
वेदान्तप्रतिपाद्यस्य नाम्नामष्टोत्तरं शतम् ॥ २८ ॥

इति श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments