Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादि-प्रार्थना-प्राप्त-दिव्यमानुष-विग्रहम् ॥
भक्तानुग्रहणैकान्त-शान्त-स्वान्त-समुज्ज्वलम् ।
सम्यज्ञं सम्यमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
स्तोत्रं ।
श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः ।
अज्ञानतिमिरादित्यः सुज्ञानाम्बुधिचन्द्रमा ॥ १ ॥
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥ २ ॥
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकरः शिष्यहृत्तापहारकः ॥ ३ ॥
परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यः साक्षाच्चङ्कररूपधृक् ॥ ४ ॥
षण्मतस्थापनाचार्यस्त्रयीमार्गप्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥ ५ ॥
वैराग्यनिरतः शान्तः संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥ ६ ॥
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्चुचिः ।
नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥ ७ ॥
निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्त्वप्रधानः सद्भावः सङ्ख्यातीतगुणोज्ज्वलः ॥ ८ ॥
अनघः सारहृदयः सुधीः सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविचक्षणः ॥ ९ ॥
तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः ॥ १० ॥
भगवान् भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११ ॥
नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२ ॥
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः ॥ १३ ॥
भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः ।
स्वप्रकाशः सदाधारो विश्वबन्धुः शुभोदयः ॥ १४ ॥
विशालकीर्तिर्वागीशः सर्वलोकहितोत्सुकः ।
कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकः ॥ १५ ॥
काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथः ॥ १६ ॥
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७ ॥
द्विसप्ततिमतोच्चेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूलितविग्रहः ॥ १८ ॥
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसञ्ज्ञकः ॥ १९ ॥
व्याससन्दर्शनप्रीतो ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २० ॥
चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसमोक्षदः ।
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ॥ २१ ॥
तोटकाचार्यसम्पूज्यो पद्मपादार्चिताङ्घ्रिकः ।
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ॥ २२ ॥
सुरेश्वराख्यसच्चिष्यसन्न्यासाश्रमदायकः ।
नृसिंहभक्तः सद्रत्नगर्भहेरम्बपूजकः ॥ २३ ॥
व्याख्यासिंहासनाधीशो जगत्पूज्यो जगद्गुरुः ॥ २४ ॥
इति श्री शङ्कराचार्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.