Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
राघवं करुणाकरं भवनाशनं दुरितापहं
माधवं खगगामिनं जलरूपिणं परमेश्वरम् ।
पालकं जनतारकं भवहारकं रिपुमारकं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ १ ॥
भूधवं वनमालिनं घनरूपिणं धरणीधरं
श्रीहरिं त्रिगुणात्मकं तुलसीधवं मधुरस्वरम् ।
श्रीकरं शरणप्रदं मधुमारकं व्रजपालकं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ २ ॥
विठ्ठलं मथुरास्थितं रजकान्तकं गजमारकं
सन्नुतं बकमारकं वृकघातकं तुरगार्दनम् ।
नन्दजं वसुदेवजं बलियज्ञगं सुरपालकं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ३ ॥
केशवं कपिवेष्टितं कपिमारकं मृगमर्दिनं
सुन्दरं द्विजपालकं दितिजार्दनं दनुजार्दनम् ।
बालकं खरमर्दिनं ऋषिपूजितं मुनिचिन्तितं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ४ ॥
शङ्करं जलशायिनं कुशबालकं रथवाहनं
सरयूनतं प्रियपुष्पकं प्रियभूसुरं लवबालकम् ।
श्रीधरं मधुसूदनं भरताग्रजं गरुडध्वजं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ५ ॥
गोप्रियं गुरुपुत्रदं वदतां वरं करुणानिधिं
भक्तपं जनतोषदं सुरपूजितं श्रुतिभिः स्तुतम् ।
भुक्तिदं जनमुक्तिदं जनरञ्जनं नृपनन्दनं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ६ ॥
चिद्घनं चिरजीविनं मणिमालिनं वरदोन्मुखं
श्रीधरं धृतिदायकं बलवर्धनं गतिदायकम् ।
शान्तिदं जनतारकं शरधारिणं गजगामिनं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ७ ॥
शार्ङ्गिणं कमलाननं कमलादृशं पदपङ्कजं
श्यामलं रविभासुरं शशिसौख्यदं करुणार्णवम् ।
सत्पतिं नृपबालकं नृपवन्दितं नृपतिप्रियं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ८ ॥
निर्गुणं सगुणात्मकं नृपमण्डनं मतिवर्धनं
अच्युतं पुरुषोत्तमं परमेष्ठिनं स्मितभाषिणम् ।
ईश्वरं हनुमन्नुतं कमलाधिपं जनसाक्षिणं
त्वां भजे जगदीश्वरं नररूपिणं रघुनन्दनम् ॥ ९ ॥
ईश्वरोक्तमेतदुत्तमादराच्छतनामकं
यः पठेद्भुवि मानवस्तव भक्तिमांस्तपनोदये ।
त्वत्पदं निजबन्धुदारसुतैर्युतश्चिरमेत्य नो
सोऽस्तु ते पदसेवने बहुतत्परो मम वाक्यतः ॥ १० ॥
इति श्रीशंभु कृत श्रीराम स्तवः ।
इतर श्री राम स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.