Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणीयं एकचत्वारिंशदशकम् (४१) – पूतनादहनं तथा कृष्णलालनाह्लादम्
व्रजेश्वरः शौरिवचो निशम्य
समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य
कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ४१-१ ॥
निशम्य गोपीवचनादुदन्तं
सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं
देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ४१-२ ॥
त्वत्पीतपूतस्तनतच्छरीरा-
-त्समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेष
किं चान्दनो गौग्गुलवोऽथवेति ॥ ४१-३ ॥
मदङ्गसङ्गस्य फलं न दूरे
क्षणेन तावद्भवतामपि स्यात् ।
इत्युल्लपन् वल्लवतल्लजेभ्य-
-स्त्वं पूतनामातनुथाः सुगन्धिम् ॥ ४१-४ ॥
चित्रं पिशाच्या न हतः कुमार-
-श्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन् किल गोपलोको
भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ४१-५ ॥
दिने दिनेऽथ प्रतिवृद्धलक्ष्मी-
-रक्षीणमाङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव
प्रमोदसान्द्रः परितो विरेजे ॥ ४१-६ ॥
गृहेषु ते कोमलरूपहास-
-मिथः कथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षा-
-समागताः प्रत्यहमत्यनन्दन् ॥ ४१-७ ॥
अहो कुमारो मयि दत्तदृष्टिः
स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं
त्वयीश किं किं न कृतं वधूभिः ॥ ४१-८ ॥
भवद्वपुःस्पर्शनकौतुकेन
करात् करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमाला-
-व्यालम्बिलोलम्बतुलामलासीः ॥ ४१-९ ॥
निपाययन्ती स्तनमङ्कगं त्वां
विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे
स तादृशः पाहि हरे गदान्माम् ॥ ४१-१० ॥
इति एकचत्वारिंशदशकं समाप्तम् ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.