Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यश्शिष्य हृत्ताप दवाग्निभयनिवारिणे महामेघः
यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा ।
यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ १ ॥
यं शङ्करार्यापररूप इति तपोनिधिं भजन्त्यार्याः
यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये ।
यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रितास्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ २ ॥
येनाश्रितं सज्जनतुष्टिकरमभीप्सितं चतुर्भद्रं
येनादृतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् ।
येनोद्धृता सम्यमिलोकनुत महानुभाव ता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ३ ॥
यस्मै नृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या
यस्मै प्रयच्छन्ति मुदाभजक जनानृपोपचारादीन् ।
यस्मै प्रदत्ता गुरुणा स्वकृत तपोविभूतयस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ४ ॥
यस्मादभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां
यस्मात्कटाक्षास्सदयाः कुशलकरास्सरन्ति भक्तेषु ।
यस्मात्सदानन्दद सूक्त्यमृत धुनी प्रजायते सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ५ ॥
यस्याङ्गके भाति महत्त्वगुणविबोधकं महातेजः
यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् ।
यस्यान्तरङ्गेहि शिवोहमिति विभावनैकता सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ६ ॥
यस्मिन् स्थिता शृङ्गगिरीड्ययति परम्परात्तदिव्यश्रीः
यस्मिन् चकास्त्युद्धृतवादि जयकरी यशःकरी विद्या ।
यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ७ ॥
योर्च्यो भजेयं शरणं भवुकयुतोस्मि येन यस्मैगीः
दत्ता च यस्मात्सुखमीप्सितमुचितं हि यस्य दासोऽहम् ।
यस्मिन् मनस्सन्ततभक्तियुतमभूत्स एव पाहि त्वं
श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ ८ ॥
इति श्री जगद्गुरु स्तुतिः
इतर श्री गुरु स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.