Site icon Stotra Nidhi

Ganesha Divya Durga Stotram – श्री गणेश दिव्यदुर्ग स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीकृष्ण उवाच ।
वद शिव महानाथ पार्वतीरमणेश्वर ।
दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १ ॥

ईश्वर उवाच ।
शृणु कृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
गणेशदुर्गदिव्यं च शृणु वक्ष्यामि भक्तितः ॥ २ ॥

त्रिपुरवधवेलायां स्मरणीयं किमीश्वर ।
दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३ ॥

श्रीकृष्ण उवाच ।
हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल ।

ईश्वर उवाच ।
शृणु वत्स प्रवक्ष्यामि दुर्गे वैनायकं शुभम् ॥ ४ ॥

सङ्ग्रामे च श्मशाने च अरण्ये चोरसङ्कटे ।
नृपद्वारे ज्वरे घोरे येनैव मुच्यते भयात् ॥ ५ ॥

प्राच्यां रक्षतु हेरम्बः आग्नेय्यामग्नितेजसा ।
याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुतः ॥ ६ ॥

प्रतीच्यां वक्रतुण्डश्च वायव्यां वरदप्रभुः ।
गणेशः पातु औदीच्यां ईशान्यामीश्वरस्तथा ॥ ७ ॥

ऊर्ध्वं रक्षेद्धूम्रवर्णो ह्यधस्तात्पापनाशनः ।
एवं दशदिशो रक्षेत् हेरम्बो विघ्ननाशनः ॥ ८ ॥

हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः ।
कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥ ९ ॥

गणेशाङ्गारशेषेण दिव्यदुर्गेण मन्त्रितम् ।
ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥ १० ॥

मात्रागमसहस्राणि सुरापानशतानि च ।
तत् क्षणात्तानि नश्यन्ति गणेशतीर्थवन्दनात् ॥ ११ ॥

नैवेद्यं वक्ततुण्डस्य नरो भुङ्क्ते तु भक्तितः ।
राज्यदानसहस्राणि तेषां फलमवाप्नुयात् ॥ १२ ॥

कदाचित्पठ्यते भक्त्या हेरम्बस्य प्रसादतः ।
शाकिनी डाकिनी भूतप्रेत वेताल राक्षसाः ॥ १३ ॥

ब्रह्मराक्षसकूष्माण्डाः प्रणश्यन्ति च दूरतः ।
भूर्जे वा ताडपत्रे वा दुर्गहेरम्बमालिखेत् ॥ १४ ॥

करमूले धृतं येन करस्थाः सर्वसिद्धयः ।
एकमावर्तनं भक्त्या पठेन्नित्यं तु यो नरः ॥ १५ ॥

कल्पकोटिसहस्राणि शिवलोके महीयते ।
लिङ्गदानसहस्राणि पृथ्वीदानशतानि च ॥ १६ ॥

गजदानसहस्रं च गणेशस्तवनात् फलम् ॥ १७ ॥

इति श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments