Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातर्वैदिककर्मतः तत्तदनुसद्वेदान्तसच्चिन्तया
पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात् ।
सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात्
कालो गच्छतु नः शरीरभरणं प्रारब्धकान्तार्पितम् ॥ १ ॥
अज्ञानं त्यज हे मनो मम सदा ब्रह्मात्मसद्भावनात्
संकल्पानखिलानपि त्यज जगन्मिथ्यात्व सम्भावनात् ।
कामं साधनसाधनाश्रम परिध्यानादजस्रं त्यज
क्रोधं तु क्षमया सदा जहि बलाल्लोभं तु सन्तोषतः ॥ २ ॥
जिह्वोपस्थसुख सभ्रमं त्यज मनःपर्यन्त दुःखेक्षणात्
पारुष्यं मृदुभाषणात्त्यज वृथालापश्रमं मौनतः ।
दुस्सङ्गं त्यज साधुसङ्गमबलाद्गर्वं तु भङ्गेक्षणात्
निन्दादुःख अनिन्द्यदेवमुनिभिर्निन्दा कथा संस्कृतेः ॥ ३ ॥
निद्रां सात्विक वस्तु सेवनतया स्वप्नं सदा जागरात्
रोगान् जीर्णसिताशनाद्दैन्यं महाधैर्यतः ।
अर्थानर्थ परिग्रहं च वृथा संसर्ग सन्त्यागतः
स्त्री वाञ्छां दोषदर्शनबलाद्दुःखं सुखात्मेक्षणात् ॥ ४ ॥
दारासक्तिमनादरात्सुतधनासक्तिं त्वनित्यत्वतः
स्नेहं मोह विसर्जनात्करुणया नैष्ठुर्यमन्तस्त्यज ।
औदासीन्य समाश्रयात्त्यज सुह्रुन्मित्रारि दुर्वासना
सर्वानर्थकरान् दशेन्द्रियरिपूनेकान्तवासान् जहि ॥ ५ ॥
आलस्यं त्वरया श्रमं श्रमधिया तन्द्रीं समुत्थानतः
भेद भ्रान्त्यभेददर्शनबलात्तां मिथ्यात्वतः सत्यताम् ।
मर्मोक्तिं निज मर्म कर्म कथया क्रोधं स्वसाम्येक्षणात्
आक्रोशं कुशलोक्तितस्य च मनश्छिन्द्यप्रमादो भयम् ॥ ६ ॥
भूतार्थस्मरणं वृथा भ्रम धिया प्राप्तं तु हानेक्षणात्
भव्यार्थव्यसनं सदा त्यज प्रारब्ध चोद्येक्षणात् ।
शिष्टाशिष्ट जनक्रियां वृथा च कष्टानुसन्धानतः
स्नेहाद्वेषमतिं सदा त्यज जनं भस्मांस्तथा संस्मृतेः ॥ ७ ॥
अध्यात्मादि भवं सदा त्यज मनस्तापं स्वभावेक्षणात्
वैषम्यं समभावतः परकथा विक्षेपमक्षोभतः ।
धिक्कारादि भवन्तु दुःखमनिशं तद्योग्यता भावनात्
तज्ञातज्ञ शिशून्क्षमस्व कृपया कर्मक्षया ताडनम् ॥ ८ ॥
आयुर्गच्छति पेटिकामिव जलं सन्त्यज्यदेहं जवात्
गच्छन्तीन्द्रियशक्तयोऽपि कुलटा यद्वन्नरं निर्धनम् ।
प्रज्ञां गच्छति धावदाह समये नीडं मृगीपक्षिवत्
ज्ञात्वा सर्वरमाश्रयमात्म पदवीं देह वृथा मा कृताः ॥ ९ ॥
धैर्यैरावत शान्ति धेनु दमना मन्दार वृक्षं सदा
मैत्र्याद्यप्सरसं विवेक तुरगं सन्तोष चिन्तामणिम् ।
आत्मज्ञान महामृतं समरसं वैराग्य चन्द्रोदयं
वेदान्तार्णवमाश्रयन्ननुदिनं सेवस्व मुक्ति श्रियम् ॥ १० ॥
प्रसादाद्दक्षिणामूर्तेः शृत्याचार्य प्रसादतः ।
दुर्वासना प्रतीकार दशकं रचितं मया ॥
इति स्वामि विद्यारण्यविरचितं दुर्वासनाप्रतिकारदशकं संपूर्णम् ।
इतर विविध स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.