Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दितिगर्भभेदः ॥
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं कश्यपं राम भर्तारमिदमब्रवीत् ॥ १ ॥
हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलैः ।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ २ ॥
साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
बलवन्तं महेष्वासं स्थितिज्ञं समदर्शिनम् ॥ ३ ॥
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ॥ ४ ॥
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ।
एवं भवतु भद्रं ते शुचिर्भव तपोधने ॥ ५ ॥
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ॥ ६ ॥
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ।
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ॥ ७ ॥
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ।
गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ॥ ८ ॥
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ॥ ९ ॥
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ।
अग्निं कृशान्काष्ठमपः फलं मूलं तथैव च ॥ १० ॥ [कुशान्]
न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ।
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ॥ ११ ॥
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।
अथ वर्षसहस्रे तु दशोने रघुनन्दन ॥ १२ ॥
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ।
याचितेन सुरश्रेष्ठ तव पित्रा महात्मना ॥ १३ ॥
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ।
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ॥ १४ ॥
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ।
तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ॥ १५ ॥
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ।
एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ॥ १६ ॥
निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ।
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ॥ १७ ॥
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ।
तस्याः शरीरविवरं विवेश च पुरन्दरः ॥ १८ ॥
गर्भं च सप्तधा राम बिभेद परमात्मवान् ।
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ॥ १९ ॥
रुरोद सुस्वरं राम ततो दितिरबुध्यत ।
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ॥ २० ॥
बिभेद च महातेजा रुदन्तमपि वासवः ।
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ॥ २१ ॥
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ।
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥ २२ ॥
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा ।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
बालकाण्ड सप्तचत्वारिंशः सर्गः (४७) >>
सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.