Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ गुहागमनम् ॥
ततर्निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।
निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत् ॥ १ ॥
महतीयमितः सेना सागराभा प्रदृश्यते ।
नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ २ ॥
यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ।
स एष हि महाकायः कोविदारध्वजो रथे ॥ ३ ॥
बन्धयिष्यति वा दाशान् अथवाऽस्मान् वधिष्यति ।
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४ ॥
सम्पन्नां श्रियमन्विच्चन् तस्य राज्ञः सुदुर्लभाम् ।
भरतः कैकेयीपुत्रः हन्तुं समधिगच्छति ॥ ५ ॥
भर्ता चैव सखा चैव रामर्दाशरथिर्मम ।
तस्यार्थकामाः सन्नद्धा गङ्गाऽनूपे प्रतिष्ठत ॥ ६ ॥
तिष्ठन्तु सर्व दाशाश्च गङ्गामन्वाश्रिता नदीम् ।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ ७ ॥
नावां शतानां पञ्चानां कैवर्तानां शतं शतम् ।
सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ ८ ॥
यदा तुष्टस्तु भरतः रामस्येह भविष्यति ।
सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥
इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ १० ॥
तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत् ॥ ११ ॥
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ १२ ॥
तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३ ॥
एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् ।
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ १४ ॥
लब्ध्वाऽभ्यनुज्ञां संहृष्टः ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ १५ ॥
निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।
निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ १६ ॥
अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ १७ ॥
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
अर्चितः विविधैः कामैः श्वस्ससैन्यो गमिष्यसि ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
अयोध्याकाण्ड पञ्चाशीतितमः सर्गः (८५) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.