Site icon Stotra Nidhi

Ayodhya Kanda Sarga 14 – अयोध्याकाण्ड चतुर्दशः सर्गः (१४)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ कैकेय्युपालम्भः ॥

पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि ।
विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥

पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः ॥ ३ ॥

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणो राजन् जगाम गतिमुत्तमाम् ॥ ४ ॥

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ ५ ॥

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।
सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥ ६ ॥

सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥

सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ ८ ॥

धर्मस्येहाभिकामार्थं मम चैवाभिचोदनात् ।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥

समयं च ममाद्येमं यदि त्वं न करिष्यसि ।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ११ ॥

उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् ।
स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥ १२ ॥

विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः । [भूमिपः]
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।
तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह ॥ १४ ॥

प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।
अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥

रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥

त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया ।
व्याहन्ताऽस्यशुभाचारे यदि रामाभिषेचनम् ॥ १७ ॥

न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथा सुखम् । [शक्नोम्यहं]
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ १८ ॥

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ १९ ॥

ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ २० ॥

किमिदं भाषसे राजन्वाक्यं गररुजोपमम् ।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२ ॥

स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ २३ ॥

धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥

ततः प्रभातां रजनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ॥ २५ ॥

वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा ।
उपसङ्गृह्य सम्भारान्प्रविवेश पुरोत्तमम् ॥ २६ ॥ [उपगॄह्याशु]

सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ २७ ॥

संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ २८ ॥

चन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ २९ ॥

ददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ॥ ३० ॥

यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ।
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ॥ ३१ ॥

वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।
सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ॥ ३२ ॥

द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ।
तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥ ३३ ॥

वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ।
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥ ३४ ॥

औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् । [मागतम्]
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥ ३५ ॥

क्षौद्रं दधि घृतं लाजाः दर्भाः सुमनसः पयः ।
अष्टौ च कन्या रुचिराः मत्तश्च वरवारणः ॥ ३६ ॥

चतुरश्वो रथः श्रीमान्निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसम्युक्तं छत्रं च शशिसन्निभम् ॥ ३७ ॥

श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ।
हेमदामपिनद्धश्च ककुद्मान्पाण्डरो वृषः ॥ ३८ ॥

केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ।
सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ॥ ३९ ॥

सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः ।
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः ॥ ४० ॥

पौरजानपदश्रेष्ठाः नैगमाश्च गणैः सह ।
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ॥ ४१ ॥ [नीयमानाः]

अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।
त्वरयस्व महाराजं यथा समुदितेऽहनि ॥ ४२ ॥

पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् । [पुष्ये]
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥ ४३ ॥

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ।
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥ ४४ ॥

न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्षवः ।
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ॥ ४५ ॥

वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।
ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥ ४६ ॥

सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।
यथा नन्दति तेजस्वी सागरो भास्करोदये ॥ ४७ ॥

प्रीतः प्रीतेन मनसा तथाऽऽनन्दघनः स्वतः ।
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ॥ ४८ ॥

सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।
वेदाः सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम् ॥ ४९ ॥

ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥ ५० ॥

बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ।
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः ॥ ५१ ॥

विराजमानो वपुषा मेरोरिव दिवाकरः ।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ ५२ ॥

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।
गता भगवती रात्रिः कृतं कृत्यमिदं तव ॥ ५३ ॥

बुद्ध्यस्व नृपशार्दूल कुरुकार्यमनन्तरम् ।
उपतिष्ठति रामस्य समग्रमभिषेचनम् ॥ ५४ ॥ [उदतिष्ठत]

पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।
अयं वसिष्ठो भगवान्ब्राह्मणैः सह तिष्ठति ॥ ५५ ॥ [स्वयं]

क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम् ।
यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥ ५६ ॥

यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥ ५७ ॥

इति तस्य वचः शृत्वा सान्त्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ ५८ ॥

ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ ५९ ॥

वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ॥ ६० ॥

प्रगृहीताञ्जलिः किञ्चित् तस्माद्देशादपाक्रमत् ।
यदा वक्तुं स्वयं दैन्यात् न शशाक महीपतिः ॥ ६१ ॥

तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥ ६२ ॥

प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ।
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥ ६३ ॥

राममानय भद्रं ते नात्र कार्या विचारणा ।
स मन्यमानः कल्याणं हृदयेन ननन्द च ॥ ६४ ॥

निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ।
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥ ६५ ॥

व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।
इति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः ॥ ६६ ॥

निर्जगाम महाबाहू राघवस्य दिदृक्षया ।
सागरह्रदसङ्काशात्सुमन्त्रोन्तःपुराच्छुभात् ।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६७ ॥

ततः पुरस्तात्सहसा विनिर्गतो
महीभृतो द्वारगतान्विलोकयन् । [पतीन्]
ददर्श पौरान्विविधान्महाधना-
-नुपस्थितान्द्वारमुपेत्य विष्ठितान् ॥ ६८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

अयोध्याकाण्ड पञ्चदशः सर्गः (१५) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments