Site icon Stotra Nidhi

Yuddha Kanda Sarga 42 – युद्धकाण्ड द्विचत्वारिंशः सर्गः (४२)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ युद्धारम्भः ॥

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं सोऽध्यरोहत ॥ २ ॥

स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥

स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥

राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६ ॥

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥

अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥ ८ ॥

पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामास वानरान्द्विषतां वधे ॥ ९ ॥

एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणः प्लवगाः सिंहनादैरनादयन् ॥ १० ॥

शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ ११ ॥

उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ १२ ॥

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥

ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ॥ १४ ॥

ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५ ॥

परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥

ततः सहस्रयूथाश्च कोटियूथाश्च वानराः ।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७ ॥

काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ १८ ॥

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥

इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१ ॥

वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ॥ २२ ॥

एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ॥ २३ ॥

आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ॥ २४ ॥

पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ॥ २५ ॥

आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ॥ २६ ॥

आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ॥ २७ ॥

आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ॥ २८ ॥

वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ॥ २९ ॥

वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ॥ ३० ॥

वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ३१ ॥

समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनीम् ।
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ॥ ३२ ॥

निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।
एतच्छ्रुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ॥ ३३ ॥

सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ॥ ३४ ॥

हेमकोणाहता भीमा राक्षसानां समन्ततः ।
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ॥ ३५ ॥

राक्षसानां सुघोराणां मुखमारुतपूरिताः ।
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ॥ ३६ ॥

विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ॥ ३७ ॥

समये पूर्यमाणस्य वेगा इव महोदधेः ।
ततो वानरसैन्येन मुक्तो नादः समन्ततः ॥ ३८ ॥

मलयः पूरितो येन ससानुप्रस्थकन्दरः ।
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ॥ ३९ ॥

पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ॥ ४० ॥

रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ॥ ४१ ॥

रक्षसां वानराणां च यथा देवासुरे पुरा ।
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ॥ ४२ ॥

निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ।
वानराश्च महावीर्याः राक्षसान् जघ्नुराहवे ॥ ४३ ॥

जयत्यतिबलो रामः लक्षणश्च महाबलः ।
राजा जयति सुग्रीव इति शब्दो महानभूत् ॥ ४४ ॥

राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥ ४५ ॥

निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ॥ ४६ ॥

भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः ॥ ४७ ॥

राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ।
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥

युद्धकाण्ड त्रिचत्वारिंशः सर्गः (४३) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments