Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ हनूमदुपदेशः ॥
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २ ॥
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ६ ॥
तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ ८ ॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १० ॥
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥ १२ ॥
तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ १३ ॥
वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ १५ ॥
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥
तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।
परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १७ ॥
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १८ ॥
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९ ॥
न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ २० ॥
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ २१ ॥
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २२ ॥
लक्षितेयं मया सीता तथा शोकपरायणा ।
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ २३ ॥
नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ २४ ॥
तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः ।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ २५ ॥
अवध्यतां तपोभिर्यां भवान्समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २६ ॥
सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः ।
न दानवो न गन्धर्वो न यक्षो न च पन्नगः ॥ २७ ॥
तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ।
न तु धर्मोपसंहारमधर्मफलसंहितम् ॥ २८ ॥
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ॥ २९ ॥
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ॥ ३० ॥
रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ।
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ॥ ३१ ॥
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ॥ ३२ ॥
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।
अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः ॥ ३३ ॥
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ॥ ३४ ॥
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।
तदलं कालपाशेन सीताविग्रहरूपिणा ॥ ३५ ॥
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ॥ ३६ ॥
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन्भ्रातॄन्सुतान्हितान् ॥ ३७ ॥
भोगान्दारांश्च लङ्कां च मा विनाशमुपानय ।
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ॥ ३८ ॥
रामदासस्य दूतस्य वानरस्य विशेषतः ।
सर्वाँल्लोकान्सुसंहृत्य सभूतान्सचराचरान् ॥ ३९ ॥
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ॥ ४० ॥
विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।
सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥ ४१ ॥
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।
यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥ ४२ ॥
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमीदृशम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३ ॥
देवाश्च दैत्याश्च निशाचरेन्द्र-
-गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य
स्थातुं न शक्ताः समरेषु सर्वे ॥ ४४ ॥
ब्रह्मा स्वयम्भूश्चतुराननो वा
रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा
त्रातुं न शक्ता युधि रामवध्यम् ॥ ४५ ॥
स सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः
समादिशत्तस्य वधं महाकपेः ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
सुन्दरकाण्ड द्विपञ्चाशः सर्गः (५२)>>
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.