Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्मिन् तण्डुलस्योपरि कूर्चे सूत्रवती समेतं श्रीविष्वक्सेनं आवाहयामि ।
प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
ओं भूः विष्वक्सेनमावाहयामि ।
ओं भुवः विष्वक्सेनमावाहयामि ।
ओग्ं सुवः विष्वक्सेनमावाहयामि ।
ओं भूर्भुवस्सुवः विष्वक्सेनमावाहयामि ॥
ध्यानम् –
विष्वक्सेनं सकलविबुधप्रौढसैन्याधिनाथं
मुद्राचक्रे करयुगधरे शङ्खदण्डौ दधानम् ।
मेघश्यामं सुमणिमकुटं पीतवस्त्रं शुभाङ्गं
ध्यायेद्देवं विजितदनुजं सूत्रवत्यासमेतम् ॥ १
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २
विष्वक्सेनं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
आसीनं तर्जनीहस्तं विष्वक्सेनं तमाश्रये ॥ ३
सपरिवाराय सूत्रवत्यासमेताय श्रीमते विष्वक्सेनाय नमः ।
ध्यायामि । ध्यानम् समर्पयामि ॥
आवाहनम् –
सपरिवाराय श्रीमते विष्वक्सेनाय नमः ।
आवाहयामि । आवाहनं समर्पयामि ॥
आसनम् –
श्रीमते विष्वक्सेनाय नमः ।
आसनं समर्पयामि ॥
पाद्यम् –
श्रीमते विष्वक्सेनाय नमः ।
पादयोः पाद्यं समर्पयामि ॥
अर्घ्यम् –
श्रीमते विष्वक्सेनाय नमः ।
हस्तेषु अर्घ्यं समर्पयामि ॥
आचमनीयम् –
श्रीमते विष्वक्सेनाय नमः ।
मुखे आचमनीयं समर्पयामि ॥
औपचारिकस्नानम् –
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्रीमते विष्वक्सेनाय नमः ।
स्नानं समर्पयामि ॥
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
वस्त्रम् –
श्रीमते विष्वक्सेनाय नमः ।
वस्त्र युग्मं समर्पयामि ॥
ऊर्ध्वपुण्ड्रम् –
श्रीमते विष्वक्सेनाय नमः ।
दिव्योर्ध्वपुण्ड्रान् धारयामि ॥
चन्दनम् –
श्रीमते विष्वक्सेनाय नमः ।
दिव्य श्रीचन्दनं समर्पयामि ॥
यज्ञोपवीतम् –
श्रीमते विष्वक्सेनाय नमः ।
यज्ञोपवीतार्थं अक्षतान् समर्पयामि ॥
पुष्पम् –
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑: ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥
श्रीमते विष्वक्सेनाय नमः ।
पुष्पाणि समर्पयामि ॥
अर्चन –
ओं सूत्रवत्यासमेताय नमः ।
ओं सेनेशाय नमः ।
ओं सर्वपालकाय नमः ।
ओं विष्वक्सेनाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं शङ्खचक्रगदाधराय नमः ।
ओं शोभनाङ्गाय नमः ।
ओं जगत्पूज्याय नमः ।
ओं वेत्रहस्तविराजिताय नमः ।
ओं पद्मासनसुसम्युक्ताय नमः ।
ओं किरीटिने नमः ।
ओं मणिकुण्डलाय नमः ।
ओं मेघश्यामलाय नमः ।
ओं तप्तकाञ्चनभूषणाय नमः ।
ओं करिवक्त्राय नमः ।
ओं महाकायाय नमः ।
ओं निर्विघ्नाय नमः ।
ओं दैत्यमर्दनाय नमः ।
ओं विशुद्धात्मने नमः ।
ओं ब्रह्मध्यानपरायणाय नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः ।
ओं श्रीमते विष्वक्सेनाय नमः ।
धूपम् –
श्रीमते विष्वक्सेनाय नमः ।
धूपं आघ्रापयामि ॥
दीपम् –
उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ ।
प॒शूग्ंश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश ॥
श्रीमते विष्वक्सेनाय नमः ।
प्रत्यक्ष दीपं सन्दर्शयामि ॥
धूप दीपानन्तरं शुद्धाअचमनीयं समर्पयामि ।
नैवेद्यम् –
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
श्रीमते विष्वक्सेनाय नमः __________ समर्पयामि ।
ओं प्राणाय स्वाहा᳚ । ओं अपानाय स्वाहा᳚ ।
ओं व्यानाय स्वाहा᳚ । ओं उदानाय स्वाहा᳚ ।
ओं समानाय स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापि धानमसि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
श्रीमते विष्वक्सेनाय नमः ।
नैवेद्यं समर्पयामि ॥
ताम्बूलम् –
श्रीमते विष्वक्सेनाय नमः ।
ताम्बूलं समर्पयामि ॥
मन्त्रपुष्पम् –
ओं विष्वक्सेनाय विद्महे वेत्रहस्ताय धीमहि । तन्नः शान्तः प्रचोदयात् ॥
श्रीमते विष्वक्सेनाय नमः ।
सुवर्णदिव्य मन्त्रपुष्पं समर्पयामि ॥
अनया श्रीविष्वक्सेन पूजया च भगवान् सर्वात्मकः श्रीविष्वक्सेनः सुप्रीतः सुप्रसन्नः वरदो भवन्तु ॥
उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु ।
उत्तरे शुभकर्मणि अविघ्नमस्तु ॥
उद्वासनम् –
ओं य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
श्रीमते विष्वक्सेनाय नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
ओं शान्तिः शान्तिः शान्तिः ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.