Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
व्यासं विष्णुस्वरूपं कलिमलतमसः प्रोद्यदादित्यदीप्तिं
वासिष्ठं वेदशाखाव्यसनकरमृषिं धर्मबीजं महान्तम् ।
पौराणब्रह्मसूत्राण्यरचयदथ यो भारतं च स्मृतिं तं
कृष्णद्वैपायनाख्यं सुरनरदितिजैः पूजितं पूजयेऽहम् ॥
वेदव्यासो विष्णुरूपः पाराशर्यस्तपोनिधिः ।
सत्यसन्धः प्रशान्तात्मा वाग्मी सत्यवतीसुतः ॥ १ ॥
कृष्णद्वैपायनो दान्तो बादरायणसञ्ज्ञितः ।
ब्रह्मसूत्रग्रथितवान् भगवान् ज्ञानभास्करः ॥ २ ॥
सर्ववेदान्ततत्त्वज्ञः सर्वज्ञो वेदमूर्तिमान् ।
वेदशाखाव्यसनकृत्कृतकृत्यो महामुनिः ॥ ३ ॥
महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः ।
महाकर्मा महाधर्मा महाभारतकल्पकः ॥ ४ ॥
महापुराणकृत् ज्ञानी ज्ञानविज्ञानभाजनम् ।
चिरञ्जीवी चिदाकारश्चित्तदोषविनाशकः ॥ ५ ॥
वासिष्ठः शक्तिपौत्रश्च शुकदेवगुरुर्गुरुः ।
आषाढपूर्णिमापूज्यः पूर्णचन्द्रनिभाननः ॥ ६ ॥
विश्वनाथस्तुतिकरो विश्ववन्द्यो जगद्गुरुः ।
जितेन्द्रियो जितक्रोधो वैराग्यनिरतः शुचिः ॥ ७ ॥
जैमिन्यादिसदाचार्यः सदाचारसदास्थितः ।
स्थितप्रज्ञः स्थिरमतिः समाधिसंस्थिताशयः ॥ ८ ॥
प्रशान्तिदः प्रसन्नात्मा शङ्करार्यप्रसादकृत् ।
नारायणात्मकः स्तव्यः सर्वलोकहिते रतः ॥ ९ ॥
अचतुर्वदनब्रह्मा द्विभुजापरकेशवः ।
अफाललोचनशिवः परब्रह्मस्वरूपकः ॥ १० ॥
ब्रह्मण्यो ब्राह्मणो ब्रह्मी ब्रह्मविद्याविशारदः ।
ब्रह्मात्मैकत्वविज्ञाता ब्रह्मभूतः सुखात्मकः ॥ ११ ॥
वेदाब्जभास्करो विद्वान् वेदवेदान्तपारगः ।
अपान्तरतमोनामा वेदाचार्यो विचारवान् ॥ १२ ॥
अज्ञानसुप्तिबुद्धात्मा प्रसुप्तानां प्रबोधकः ।
अप्रमत्तोऽप्रमेयात्मा मौनी ब्रह्मपदे रतः ॥ १३ ॥
पूतात्मा सर्वभूतात्मा भूतिमान्भूमिपावनः ।
भूतभव्यभवज्ञाता भूमसंस्थितमानसः ॥ १४ ॥
उत्फुल्लपुण्डरीकाक्षः पुण्डरीकाक्षविग्रहः ।
नवग्रहस्तुतिकरः परिग्रहविवर्जितः ॥ १५ ॥
एकान्तवाससुप्रीतः शमादिनिलयो मुनिः ।
एकदन्तस्वरूपेण लिपिकारी बृहस्पतिः ॥ १६ ॥
भस्मरेखाविलिप्ताङ्गो रुद्राक्षावलिभूषितः ।
ज्ञानमुद्रालसत्पाणिः स्मितवक्त्रो जटाधरः ॥ १७ ॥
गभीरात्मा सुधीरात्मा स्वात्मारामो रमापतिः ।
महात्मा करुणासिन्धुरनिर्देश्यः स्वराजितः ॥ १८ ॥
इति श्रीयोगानन्दसरस्वतीविरचितं श्रीवेदव्यासाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.