Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
नामभिः संस्तुतो देवो यैरर्कः परितुष्यति ।
तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥ १ ॥
नमः सूर्याय नित्याय रवये कार्यभानवे ।
भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥ २ ॥
आदित्यायादिदेवाय नमस्ते रश्मिमालिने ।
दिवाकराय दीप्ताय अग्नये मिहिराय च ॥ ३ ॥
प्रभाकराय मित्राय नमस्तेऽदितिसम्भव ।
नमो गोपतये नित्यं दिशां च पतये नमः ॥ ४ ॥
नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च ।
पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः ॥ ५ ॥
नमो हितकृते नित्यं धर्माय तपनाय च ।
हरये हरिताश्वाय विश्वस्य पतये नमः ॥ ६ ॥
विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने ।
नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये ॥ ७ ॥
एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ।
ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः ॥ ८ ॥
हिताय सर्वभूतानां शिवायार्तिहराय च ।
नमः पद्मप्रबोधाय नमो द्वादशमूर्तये ॥ ९ ॥ [वेदादिमूर्तये]
कविजाय नमस्तुभ्यं नमस्तारासुताय च ।
भीमजाय नमस्तुभ्यं पावकाय च वै नमः ॥ १० ॥
धिषणाय नमो नित्यं नमः कृष्णाय नित्यदा ।
नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः ॥ ११ ॥
एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा ।
आराधनाय देवस्य सर्वकामेन सुव्रत ॥ १२ ॥
सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः ।
स प्राप्नोत्यखिलान् कामान् यथाहं प्राप्तवान् पुरा ॥ १३ ॥
प्रसादात्तस्य देवस्य भास्करस्य महात्मनः ।
श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥ १४ ॥
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् ॥ १५ ॥
एतज्जप्यं रहस्यं च सन्ध्योपासनमेव च ।
एतेन जपमात्रेण नरः पापात् प्रमुच्यते ॥ १६ ॥
इति श्रीभविष्यमहापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मप्रोक्त सूर्य नाम वर्णनं नामैकसप्ततितमोऽध्यायः ॥
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.