Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दिवानाथ निशानाथौ तौ च्छायारोहिणिप्रियौ ।
कश्यपाऽत्रिसमुद्भूतौ सूर्यचन्द्रौ गतिर्मम ॥ १ ॥
ग्रहराजौ पुष्पवन्तौ सिंहकर्कटकाधिपौ ।
अत्युष्णानुष्णकिरणौ सूर्यचन्द्रौ गतिर्मम ॥ २ ॥
एकचक्रत्रिचक्राढ्यरथौ लोकैकसाक्षिणौ ।
लसत्पद्मगदाहस्तौ सूर्यचन्द्रौ गतिर्मम ॥ ३ ॥
द्वादशात्मा सुधात्मानौ दिवाकरनिशाकरौ ।
सप्तमी दशमी जातौ सूर्यचन्द्रौ गतिर्मम ॥ ४ ॥
अदित्याख्यानसूयाख्य देवीगर्भसमुद्भवौ ।
आरोग्याह्लादकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ ५ ॥
महात्मानौ चक्रवाकचकोरप्रीतिकारकौ ।
सहस्रषोडशकलौ सूर्यचन्द्रौ गतिर्मम ॥ ६ ॥
कलिङ्गयमुनाधीशौ कमलोत्पलबान्धवौ ।
माणिक्यमुक्तासुप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ७ ॥
शनितारेयजनकौ वार्धिशोषकतोषकौ ।
वृष्टिसस्याकरकरौ सूर्यचन्द्रौ गतिर्मम ॥ ८ ॥
विष्णुनेत्रात्मकौ रुद्ररथचक्रात्मकावुभौ ।
रामकृष्णान्वयकरौ सूर्यचन्द्रौ गतिर्मम ॥ ९ ॥
हरिसप्ताश्वधवलौ दशाश्वौ पापहारिणौ ।
सिद्धान्तव्याकृतिकरौ सूर्यचन्द्रौ गतिर्मम ॥ १० ॥
सुवर्तुलचतुष्कोणमण्डलाढ्यौ तमोपहौ ।
गोधूमतण्डुलप्रीतौ सूर्यचन्द्रौ गतिर्मम ॥ ११ ॥
लोकेशावातपज्ज्योत्स्नाशालिनौ राहुसूचकौ ।
मन्देहदेवजेतारौ सूर्यचन्द्रौ गतिर्मम ॥ १२ ॥
अरुणाख्यसुबन्ध्वाख्यसारथी व्योमचारिणौ ।
महाध्वरप्रकर्तारौ सूर्यचन्द्रौ गतिर्मम ॥ १३ ॥
अर्कपालाशसुप्रीतौ प्रभाकरसुधाकरौ ।
यमुनानर्मदातारौ सूर्यचन्द्रौ गतिर्मम ॥ १४ ॥
पाषाणज्वालविद्रावकारिणौ कालसूचकौ ।
विशाखाकृत्तिकाजातौ सूर्यचन्द्रौ गतिर्मम ॥ १५ ॥
उपेन्द्रलक्ष्मीसहजौ ग्रहनक्षत्रनायकौ ।
क्षत्रद्विजमहाराजौ सूर्यचन्द्रौ गतिर्मम ॥ १६ ॥
श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मितम् ।
विलसत्पुष्पवत् स्तोत्र कलाश्लोकविराजितम् ॥ १७ ॥
इदं पापहरं स्तोत्रं सदा भक्त्या पठन्ति ये ।
ते लभन्ते पुत्रपौत्राद्यायुरारोग्यसम्पदः ॥ १८ ॥
इति श्री सूर्यचन्द्रकला स्तोत्रम् ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.