Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीं सौं शरवणभवाय नमः ।
ओं शरच्चन्द्रायुतप्रभाय नमः ।
ओं शशाङ्कशेखरसुताय नमः ।
ओं शचीमाङ्गल्यरक्षकाय नमः ।
ओं शतायुष्यप्रदात्रे नमः ।
ओं शतकोटिरविप्रभाय नमः ।
ओं शचीवल्लभसुप्रीताय नमः ।
ओं शचीनायकपूजिताय नमः ।
ओं शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ।
ओं शचीशार्तिहराय नमः । १० ।
ओं शम्भवे नमः ।
ओं शम्भूपदेशकाय नमः ।
ओं शङ्कराय नमः ।
ओं शङ्करप्रीताय नमः ।
ओं शम्याककुसुमप्रियाय नमः ।
ओं शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः ।
ओं शचीनाथसुताप्राणनायकाय नमः ।
ओं शक्तिपाणिमते नमः ।
ओं शङ्खपाणिप्रियाय नमः ।
ओं शङ्खोपमषड्गलसुप्रभाय नमः । २० ।
ओं शङ्खघोषप्रियाय नमः ।
ओं शङ्खचक्रशूलादिकायुधाय नमः ।
ओं शङ्खधाराभिषेकादिप्रियाय नमः ।
ओं शङ्करवल्लभाय नमः ।
ओं शब्दब्रह्ममयाय नमः ।
ओं शब्दमूलान्तरात्मकाय नमः ।
ओं शब्दप्रियाय नमः ।
ओं शब्दरूपाय नमः ।
ओं शब्दानन्दाय नमः ।
ओं शचीस्तुताय नमः । ३० ।
ओं शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः ।
ओं शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः ।
ओं शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः ।
ओं शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः ।
ओं शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः ।
ओं शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ।
ओं शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेविताय नमः ।
ओं शङ्खपद्मनिधीनां च कोटिभिः परिसेविताय नमः ।
ओं शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेविताय नमः ।
ओं शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः । ४० ।
ओं शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः ।
ओं शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ।
ओं शतपत्रद्वयकराय नमः ।
ओं शतपत्रार्चनप्रियाय नमः ।
ओं शतपत्रसमासीनाय नमः ।
ओं शतपत्रासनस्तुताय नमः ।
ओं शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः ।
ओं शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः ।
ओं शशाङ्कार्धजटाजूटाय नमः ।
ओं शरणागतवत्सलाय नमः । ५० ।
ओं रकाररूपाय नमः ।
ओं रमणाय नमः ।
ओं राजीवाक्षाय नमः ।
ओं रहोगताय नमः ।
ओं रतीशकोटिसौन्दर्याय नमः ।
ओं रविकोट्युदयप्रभाय नमः ।
ओं रागस्वरूपाय नमः ।
ओं रागघ्नाय नमः ।
ओं रक्ताब्जप्रियाय नमः ।
ओं राजराजेश्वरीपुत्राय नमः । ६० ।
ओं राजेन्द्रविभवप्रदाय नमः ।
ओं रत्नप्रभाकिरीटाग्राय नमः ।
ओं रविचन्द्राग्निलोचनाय नमः ।
ओं रत्नाङ्गदमहाबाहवे नमः ।
ओं रत्नताटङ्कभूषणाय नमः ।
ओं रत्नकेयूरभूषाढ्याय नमः ।
ओं रत्नहारविराजिताय नमः ।
ओं रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः ।
ओं रवसम्युक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः ।
ओं रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः । ७० ।
ओं रत्नसिंहासनासीनाय नमः ।
ओं रत्नशोभितमन्दिराय नमः ।
ओं राकेन्दुमुखषट्काय नमः ।
ओं रमावाण्यादिपूजिताय नमः ।
ओं राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ।
ओं रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः ।
ओं राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः ।
ओं राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः ।
ओं रवयुक्तधनुर्हस्ताय नमः ।
ओं रत्नकुक्कुटधारणाय नमः । ८० ।
ओं रणरङ्गजयाय नमः ।
ओं रामास्तोत्रश्रवणकौतुकाय नमः ।
ओं रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः ।
ओं रक्तपीताम्बरधराय नमः ।
ओं रक्तगन्धानुलेपनाय नमः ।
ओं रक्तद्वादशपद्माक्षाय नमः ।
ओं रक्तमाल्यविभूषिताय नमः ।
ओं रविप्रियाय नमः ।
ओं रावणेशस्तोत्रसाममनोहराय नमः ।
ओं राज्यप्रदाय नमः । ९० ।
ओं रन्ध्रगुह्याय नमः ।
ओं रतिवल्लभसुप्रियाय नमः ।
ओं रणानुबन्धनिर्मुक्ताय नमः ।
ओं राक्षसानीकनाशकाय नमः ।
ओं राजीवसम्भवद्वेषिणे नमः ।
ओं राजीवासनपूजिताय नमः ।
ओं रमणीयमहाचित्रमयूरारूढसुन्दराय नमः ।
ओं रमानाथस्तुताय नमः ।
ओं रामाय नमः ।
ओं रकाराकर्षणक्रियाय नमः । १०० ।
ओं वकाररूपाय नमः ।
ओं वरदाय नमः ।
ओं वज्रशक्त्यभयान्विताय नमः ।
ओं वामदेवादिसम्पूज्याय नमः ।
ओं वज्रपाणिमनोहराय नमः ।
ओं वाणीस्तुताय नमः ।
ओं वासवेशाय नमः ।
ओं वल्लीकल्याणसुन्दराय नमः ।
ओं वल्लीवदनपद्मार्काय नमः ।
ओं वल्लीनेत्रोत्पलोडुपाय नमः । ११० ।
ओं वल्लीद्विनयनानन्दाय नमः ।
ओं वल्लीचित्ततटामृताय नमः ।
ओं वल्लीकल्पलतावृक्षाय नमः ।
ओं वल्लीप्रियमनोहराय नमः ।
ओं वल्लीकुमुदहास्येन्दवे नमः ।
ओं वल्लीभाषितसुप्रियाय नमः ।
ओं वल्लीमनोहृत्सौन्दर्याय नमः ।
ओं वल्लीविद्युल्लताघनाय नमः ।
ओं वल्लीमङ्गलवेषाढ्याय नमः ।
ओं वल्लीमुखवशङ्कराय नमः । १२० ।
ओं वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः ।
ओं वल्लीशाय नमः ।
ओं वल्लभाय नमः ।
ओं वायुसारथये नमः ।
ओं वरुणस्तुताय नमः ।
ओं वक्रतुण्डानुजाय नमः ।
ओं वत्साय नमः ।
ओं वत्सलाय नमः ।
ओं वत्सरक्षकाय नमः ।
ओं वत्सप्रियाय नमः । १३० ।
ओं वत्सनाथाय नमः ।
ओं वत्सवीरगणावृताय नमः ।
ओं वारणाननदैत्यघ्नाय नमः ।
ओं वातापिघ्नोपदेशकाय नमः ।
ओं वर्णगात्रमयूरस्थाय नमः ।
ओं वर्णरूपाय नमः ।
ओं वरप्रभवे नमः ।
ओं वर्णस्थाय नमः ।
ओं वारणारूढाय नमः ।
ओं वज्रशक्त्यायुधप्रियाय नमः । १४० ।
ओं वामाङ्गाय नमः ।
ओं वामनयनाय नमः ।
ओं वचद्भुवे नमः ।
ओं वामनप्रियाय नमः ।
ओं वरवेषधराय नमः ।
ओं वामाय नमः ।
ओं वाचस्पतिसमर्चिताय नमः ।
ओं वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः ।
ओं वन्दनप्रियाय नमः ।
ओं वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः । १५० ।
ओं णकाररूपाय नमः ।
ओं नादान्ताय नमः ।
ओं नारदादिमुनिस्तुताय नमः ।
ओं णकारपीठमध्यस्थाय नमः ।
ओं नगभेदिने नमः ।
ओं नगेश्वराय नमः ।
ओं णकारनादसन्तुष्टाय नमः ।
ओं नागाशनरथस्थिताय नमः ।
ओं णकारजपसुप्रीताय नमः ।
ओं नानावेषाय नमः । १६० ।
ओं नगप्रियाय नमः ।
ओं णकारबिन्दुनिलयाय नमः ।
ओं नवग्रहसुरूपकाय नमः ।
ओं णकारपठनानन्दाय नमः ।
ओं नन्दिकेश्वरवन्दिताय नमः ।
ओं णकारघण्टानिनदाय नमः ।
ओं नारायणमनोहराय नमः ।
ओं णकारनादश्रवणाय नमः ।
ओं नलिनोद्भवशिक्षकाय नमः ।
ओं णकारपङ्कजादित्याय नमः । १७० ।
ओं नववीराधिनायकाय नमः ।
ओं णकारपुष्पभ्रमराय नमः ।
ओं नवरत्नविभूषणाय नमः ।
ओं णकारानर्घशयनाय नमः ।
ओं नवशक्तिसमावृताय नमः ।
ओं णकारवृक्षकुसुमाय नमः ।
ओं नाट्यसङ्गीतसुप्रियाय नमः ।
ओं णकारबिन्दुनादज्ञाय नमः ।
ओं नयज्ञाय नमः ।
ओं नयनोद्भवाय नमः । १८० ।
ओं णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः ।
ओं णकारपेटकमणये नमः ।
ओं नागपर्वतमन्दिराय नमः ।
ओं णकारकरुणानन्दाय नमः ।
ओं नादात्मने नमः ।
ओं नागभूषणाय नमः ।
ओं णकारकिङ्किणीभूषाय नमः ।
ओं नयनादृश्यदर्शनाय नमः ।
ओं णकारवृषभावासाय नमः ।
ओं नामपारायणप्रियाय नमः । १९० ।
ओं णकारकमलारूढाय नमः ।
ओं नामानन्तसमन्विताय नमः ।
ओं णकारतुरगारूढाय नमः ।
ओं नवरत्नादिदायकाय नमः ।
ओं णकारमकुटज्वालामणये नमः ।
ओं नवनिधिप्रदाय नमः ।
ओं णकारमूलमन्त्रार्थाय नमः ।
ओं नवसिद्धादिपूजिताय नमः ।
ओं णकारमूलनादान्ताय नमः ।
ओं णकारस्तम्भनक्रियाय नमः । २०० ।
ओं भकाररूपाय नमः ।
ओं भक्तार्थाय नमः ।
ओं भवाय नमः ।
ओं भर्गाय नमः ।
ओं भयापहाय नमः ।
ओं भक्तप्रियाय नमः ।
ओं भक्तवन्द्याय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भक्तार्तिभञ्जनाय नमः । २१० ।
ओं भद्राय नमः ।
ओं भक्तसौभाग्यदायकाय नमः ।
ओं भक्तमङ्गलदात्रे नमः ।
ओं भक्तकल्याणदर्शनाय नमः ।
ओं भक्तदर्शनसन्तुष्टाय नमः ।
ओं भक्तसङ्घसुपूजिताय नमः ।
ओं भक्तस्तोत्रप्रियानन्दाय नमः ।
ओं भक्ताभीष्टप्रदायकाय नमः ।
ओं भक्तसम्पूर्णफलदाय नमः ।
ओं भक्तसाम्राज्यभोगदाय नमः । २२० ।
ओं भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः ।
ओं भवौषधये नमः ।
ओं भवघ्नाय नमः ।
ओं भवारण्यदवानलाय नमः ।
ओं भवान्धकारमार्ताण्डाय नमः ।
ओं भववैद्याय नमः ।
ओं भवायुधाय नमः ।
ओं भवशैलमहावज्राय नमः ।
ओं भवसागरनाविकाय नमः ।
ओं भवमृत्युभयध्वंसिने नमः । २३० ।
ओं भावनातीतविग्रहाय नमः ।
ओं भयभूतपिशाचघ्नाय नमः ।
ओं भास्वराय नमः ।
ओं भारतीप्रियाय नमः ।
ओं भाषितध्वनिमूलान्ताय नमः ।
ओं भावाभावविवर्जिताय नमः ।
ओं भानुकोपपितृध्वंसिने नमः ।
ओं भारतीशोपदेशकाय नमः ।
ओं भार्गवीनायकश्रीमद्भागिनेयाय नमः ।
ओं भवोद्भवाय नमः । २४० ।
ओं भारक्रौञ्चासुरद्वेषाय नमः ।
ओं भार्गवीनाथवल्लभाय नमः ।
ओं भटवीरनमस्कृत्याय नमः ।
ओं भटवीरसमावृताय नमः ।
ओं भटतारागणोड्वीशाय नमः ।
ओं भटवीरगणस्तुताय नमः ।
ओं भागीरथेयाय नमः ।
ओं भाषार्थाय नमः ।
ओं भावनाशबरीप्रियाय नमः ।
ओं भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः । २५० ।
ओं वकारसुकलासंस्थाय नमः ।
ओं वरिष्ठाय नमः ।
ओं वसुदायकाय नमः ।
ओं वकारकुमुदेन्दवे नमः ।
ओं वकाराब्धिसुधामयाय नमः ।
ओं वकारामृतमाधुर्याय नमः ।
ओं वकारामृतदायकाय नमः ।
ओं दक्षे वज्राभीतियुताय नमः ।
ओं वामे शक्तिवरान्विताय नमः ।
ओं वकारोदधिपूर्णेन्दवे नमः । २६० ।
ओं वकारोदधिमौक्तिकाय नमः ।
ओं वकारमेघसलिलाय नमः ।
ओं वासवात्मजरक्षकाय नमः ।
ओं वकारफलसारज्ञाय नमः ।
ओं वकारकलशामृताय नमः ।
ओं वकारपङ्कजरसाय नमः ।
ओं वसवे नमः ।
ओं वंशविवर्धनाय नमः ।
ओं वकारदिव्यकमलभ्रमराय नमः ।
ओं वायुवन्दिताय नमः । २७० ।
ओं वकारशशिसङ्काशाय नमः ।
ओं वज्रपाणिसुताप्रियाय नमः ।
ओं वकारपुष्पसद्गन्धाय नमः ।
ओं वकारतटपङ्कजाय नमः ।
ओं वकारभ्रमरध्वानाय नमः ।
ओं वयस्तेजोबलप्रदाय नमः ।
ओं वकारवनितानाथाय नमः ।
ओं वश्याद्यष्टक्रियाप्रदाय नमः ।
ओं वकारफलसत्काराय नमः ।
ओं वकाराज्यहुताशनाय नमः । २८० ।
ओं वर्चस्विने नमः ।
ओं वाङ्मनोऽतीताय नमः ।
ओं वाताप्यरिकृतप्रियाय नमः ।
ओं वकारवटमूलस्थाय नमः ।
ओं वकारजलधेस्तटाय नमः ।
ओं वकारगङ्गावेगाब्धये नमः ।
ओं वज्रमाणिक्यभूषणाय नमः ।
ओं वातरोगहराय नमः ।
ओं वाणीगीतश्रवणकौतुकाय नमः ।
ओं वकारमकरारूढाय नमः । २९० ।
ओं वकारजलधेः पतये नमः ।
ओं वकारामलमन्त्रार्थाय नमः ।
ओं वकारगृहमङ्गलाय नमः ।
ओं वकारस्वर्गमाहेन्द्राय नमः ।
ओं वकारारण्यवारणाय नमः ।
ओं वकारपञ्जरशुकाय नमः ।
ओं वलारितनयास्तुताय नमः ।
ओं वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः ।
ओं वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः ।
ओं वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः । ३०० ।
ओं वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः ।
ओं वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः ।
ओं वासनागन्धलिप्ताङ्गाय नमः ।
ओं वषट्काराय नमः ।
ओं वशीकराय नमः ।
ओं वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः ।
ओं वल्लभानाथसुप्रीताय नमः ।
ओं वरपूर्णामृतोदधये नमः । ३०८ ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.