Site icon Stotra Nidhi

Sri Siddha Saraswati Stotram – श्री सिद्धसरस्वती स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

सौन्दर्यमाधुर्यसुधासमुद्र-
-विनिद्रपद्मासनसन्निविष्टाम् ।
चञ्चद्विपञ्चीकलनादमुग्धां
शुद्धां दधेऽन्तर्विसरत्सुगन्धाम् ॥ १ ॥

श्रुतिःस्मृतिस्तत्पदपद्मगन्धि-
-प्रभामयं वाङ्मयमस्तपारम् ।
यत्कोणकोणाभिनिविष्टमिष्टं
तामम्बिकां सर्वसितां श्रिताः स्मः ॥ २ ॥

न कान्दिशीकं रवितोऽतिवेलं
तं कौशिकं संस्पृहये निशातम् ।
सावित्रसारस्वतधामपश्यं
शस्यं तपोब्राह्मणमाद्रिये तम् ॥ ३ ॥

श्रीशारदां प्रार्थितसिद्धविद्यां
श्रीशारदाम्भोजसगोत्रनेत्राम् ।
श्रीशारदाम्भोजनिवीज्यमानां
श्रीशारदाङ्कानुजनिं भजामि ॥ ४ ॥

चक्राङ्गराजाञ्चितपादपद्मां
पद्मालयाऽभ्यर्थितसुस्मितश्रीः ।
स्मितश्रिया वर्षितसर्वकामा
वामा विधेः पूरयतां प्रियं नः ॥ ५ ॥

बाहो रमायाः किल कौशिकोऽसौ
हंसो भवत्याः प्रथितो विविक्तः ।
जगद्विधातुर्महिषि त्वमस्मान्
विधेहि सभ्यान्नहि मातरिभ्यान् ॥ ६ ॥

स्वच्छव्रतः स्वच्छचरित्रचुञ्चुः
स्वच्छान्तरः स्वच्छसमस्तवृत्तिः ।
स्वच्छं भवत्याः प्रपदं प्रपन्नः
स्वच्छे त्वयि ब्रह्मणि जातु यातु ॥ ७ ॥

रवीन्दुवह्निद्युतिकारिदीप्रं
सिंहासनं सन्ततवाद्यगानम् ।
विदीपयन्मातृकधाम यामः
कारुण्यपूर्णामृतवारिवाहम् ॥ ८ ॥

शुभ्रां शुभ्रसरोजमुग्धवदनां शुभ्राम्बरालङ्कृतां
शुभ्राङ्गीं शुभशुभ्रहास्यविशदां शुभ्रस्रगाशोभिनीम् ।
शुभ्रोद्दामललामधाममहिमां शुभ्रान्तरङ्गागतां
शुभ्राभां भयहारिभावभरितां श्रीभारतीं भावये ॥ ९ ॥

मुक्तालङ्कृतकुन्तलान्तसरणिं रत्नालिहारावलिं
काञ्चीकान्तीवलग्नलग्नवलयां वज्राङ्गुलीयाङ्गुलिम् ।
लीलाचञ्चललोचनाञ्चलचलल्लोकेशलोलालकां
कल्यामाकलयेऽतिवेलमतुलां वित्कल्पवल्लीकलाम् ॥ १० ॥

प्रयतो धारयेद्यस्तु सारस्वतमियं स्तवम् ।
सारस्वतं तस्य महः प्रत्यक्षमचिराद्भवेत् ॥ ११ ॥

वाग्बीजसम्पुटं स्तोत्रं जगन्मातुः प्रसादजम् ।
शिवालये जपन् मर्त्यः प्राप्नुयाद्बुद्धिवैभवम् ॥ १२ ॥

सूर्यग्रहे प्रजपितः स्तवः सिद्धिकरः परः ।
वाराणस्यां पुण्यतीर्थे सद्यो वाञ्छितदायकः ॥ १३ ॥

पादाम्भोजे सरस्वत्याः शङ्कराचार्यभिक्षुणा ।
काशीपीठाधिपतिना गुम्फिता स्रक् समर्पिता ॥ १४ ॥

इति काशीपीठाधीश्वरजगद्गुरु शङ्कराचार्य स्वामि श्रीमहेश्वरानन्द सरस्वती विरचितं श्री सिद्धसरस्वती स्तोत्रम् ॥

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments