Site icon Stotra Nidhi

Sri Panchamukha Hanumath Panjaram – श्री पञ्चमुख हनुमत् पञ्जरम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य श्रीहनुमत्पञ्जरस्य ऋषिः श्रीरामचन्द्र भगवानिति च, छन्दोऽनुष्टुप् श्रीपञ्चवक्त्रहनुमान देवतेति च ह्रां बीजं स्वाहा शक्तिः प्रणवो कीलकं स्मृतः मन्त्रोक्त देवताप्रसादसिद्ध्यर्थे विनियोगः ॥

करन्यासः –
ओं ह्रां रामदूताय अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं वानरमुखाय तर्जनीभ्यां नमः ।
ओं ह्रूं वायुनन्दनाय मध्यमाभ्यां नमः ।
ओं ह्रैं नृसिंहमुखाय अनामिकाभ्यां नमः ।
ओं ह्रौं अञ्जनासूनवे कनिष्ठिकाभ्यां नमः ।
ओं ह्रः पराय करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्रां गरुडमुखाय हृदयाय नमः ।
ओं ह्रीं हरिमर्कटाय शिरसे स्वाहा ।
ओं ह्रूं क्रोडमुखाय शिखायै वषट् ।
ओं ह्रैं रामकार्यधुरन्धराय कवचाय हुम् ।
ओं ह्रौं अश्वमुखाय नेत्रत्रयाय वौषट् ।
ओं ह्रः सर्वराक्षसनाशनाय अस्त्राय फट् ।

ध्यानम् –
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

पञ्जरम् –
आदौ प्रणवमुच्चार्यं वन्दे हरिपदं ततः ।
उच्चार्य मर्कटपदं मर्कटायेति चोच्चरेत् ।
अग्निजायां समुच्चार्य द्वादशार्णो महामनुः ।
(ओं हरिमर्कट मर्कटाय स्वाहा)
शिरः पातु मम सदा सर्वसौख्यप्रदायकः ॥ १ ॥

आदौ प्रणवमुच्चार्य कपिबीजं ततोच्चरेत् ।
नृसिंहबीजमुच्चार्य गारुडं च समुच्चरेत् ।
वराहबीजमुच्चार्य हयग्रीवं ततोच्चरेत् ।
नमः पदं ततोच्चार्य स पञ्चास्य महाकपेः ।
चतुर्दशार्णमन्त्रोऽयं मुखं पायात् सदा मम ॥ २ ॥

आदौ प्रणवमुच्चार्य नमो भगवते पदम् ।
पञ्चवदनाय चोच्चार्य पूर्वमुखेति चोच्चरेत् ।
वानरं बीजमुच्चार्य कपिमुखाय चोच्चरेत् ।
सर्वशत्रुहरायेति महाबलाय चोच्चरेत् ।
अग्निजायां ततोच्चार्य सप्तत्रिंशाक्षराभिधः ।
कण्ठं मम सदा पातु सर्वशत्रुविनाशकः ॥ ३ ॥

उच्चार्यं प्रणवं चादौ नमो भगवतेति च ।
नारसिंह महाबीज करालपदमुच्चरेत् ।
नृसिंहाय पदं चोक्त्वा सकलभूतप्रेत च ।
पिशाचब्रह्मराक्षसप्रमथनाय पदं वदेत् ।
अग्निजायां ततोच्चार्य वसु वेदार्णको मनुः ।
हृदयं मे सदा पातु सर्वशत्रुविनाशकः ॥ ४ ॥

ओं नमो भगवतेति पञ्चवदनाय ततः ।
पश्चिममुखेति चोच्चार्य गारुडं बीजमुच्चरेत् ।
वीरगरुडाय महाबलायेति पदं ततः ।
सर्वनागप्रमथनायान्ते सकलविषेति ।
हराय स्वाहा त्वं ततः वेदाभ्यक्षरसम्युतः ।
हनुमन्ममोदरं पातु सर्वरोगनिबर्हणः ॥ ५ ॥

ओं नमो भगवतेति पञ्चवदनाय ततः ।
उत्तरमुखे चोच्चार्य क्रोडवाग्बीजमुच्चरेत् ।
आदिवाराह सर्वसम्पत्प्रदाय निधि भूमि च ।
प्रदाय पश्चाज्ज्वरेति रोगनिकृन्तन स्वाहा ।
नाभिं पातु मम सदा सुखसौभाग्य हेतुकः ।
नेत्र बाणार्णको मनोः पश्चात्प्रणवमुच्चरेत् ॥ ६ ॥

ओं नमो भगवते पञ्चवदनाय पदं ततः ।
ऊर्ध्वमुखेत्यन्ते हयबीजं ततः परम् ।
हयग्रीवाय सकलप्रदाय सकलेति च ।
जनवशीकरणाय सकल दानवान्तकाय ।
पश्चात् प्राज्ञाय स्वाहेति षट्पञ्चाशद्वर्णको मनुः ।
मम जानुद्वयं पातु सर्व राक्षसनाशकः ॥ ७ ॥

ओं च ह्रीमित्ययं चोक्त्वा नमो भगवते ततः ।
ब्रह्मास्त्रसंहारकाय राक्षसकुलनाशयेति ।
पताक हनुमतेति मायाबीजत्रयं ततः ।
क्रोडास्त्र वह्निजायां तं मनुः पादद्वयं मम ॥ ८ ॥

ह्रां नमः पञ्चवक्त्राय नाभिदेशं सदा मम ।
ह्रीं नमः पञ्चवक्त्राय पातु जङ्घद्वयं मम ।
ह्रूं नमः पञ्चवक्त्राय पातु जानुद्वयं मम ।
ह्रैं नमः पञ्चवक्त्राय पादद्वन्द्वं सदाऽवतु ।
ह्रौं नमः पञ्चवक्त्राय कटिदेशं सदाऽवतु ।
ह्रः नमः पञ्चवक्त्राय चोदरं पातु सर्वदा ॥ ९ ॥

ऐं नमः पञ्चवक्त्राय हृदयं पातु सर्वदा ।
क्लां नमः पञ्चवक्त्राय बाहुयुग्मं सदावतु ।
क्लीं नमः पञ्चवक्त्राय करयुग्मं सदा मम ।
क्लूं नमः पञ्चवक्त्राय कण्ठदेशं सदाऽवतु ।
क्लैं नमः पञ्चवक्त्राय चुबुकं मे सदाऽवतु ।
क्लौं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्लः नमः पञ्चवक्त्राय नेत्रयुग्मं सदावतु ॥ १० ॥

रां नमः पञ्चवक्त्राय शोत्रयुग्मं सदावतु ।
रीं नमः पञ्चवक्त्राय फालं पातु महाबलः ।
रूं नमः पञ्चवक्त्राय शिरः पायात् सदा मम ।
रैं नमः पञ्चवक्त्राय शिखां मम सदाऽवतु ।
रौं नमः पञ्चवक्त्राय मूर्धानं पातु सर्वदा ।
रः नमः पञ्चवक्त्राय मुखं पातु सदा मम ॥ ११ ॥

क्ष्रां नमः पञ्चवक्त्राय श्रोत्रयुग्मं सदाऽवतु ।
क्ष्रीं नमः पञ्चवक्त्राय नेत्रयुग्मं सदा मम ।
क्ष्रूं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्ष्रैं नमः पञ्चवक्त्राय भ्रूयुग्मं पातु सर्वदा ।
क्ष्रौं नमः पञ्चवक्त्राय नासिकां पातु सर्वदा ।
क्षः नमः पञ्चवक्त्राय कण्ठं पातु कपीश्वरः ॥ १२ ॥

ग्लां नमः पञ्चवक्त्राय पातु वक्षस्थलं मम ।
ग्लीं नमः पञ्चवक्त्राय बाहुयुग्मं सदा मम ।
ग्लूं नमः पञ्चवक्त्राय करयुग्मं सदाऽवतु ।
ग्लैं नमः पञ्चवक्त्राय मम पातु वलित्रयम् ।
ग्लौं नमः पञ्चवक्त्राय चोरदं पातु सर्वदा ।
ग्लः नमः पञ्चवक्त्राय नाभिं पातु सदा मम ॥ १३ ॥

आं नमः पञ्चवक्त्राय वानराय कटिं मम ।
ईं नमः पञ्चवक्त्राय ऊरुयुग्मं सदाऽवतु ।
ऊं नमः पञ्चवक्त्राय जानुद्वन्द्वं सदा मम ।
ऐं नमः पञ्चवक्त्राय गुल्फद्वन्द्वं सदाऽवतु ।
औं नमः पञ्चवक्त्राय पादद्वन्द्वं सदाऽवतु ।
अः नमः पञ्चवक्त्राय सर्वाङ्गानि सदाऽवतु ॥ १४ ॥

वानरः पूर्वतः पातु दक्षिणे नरकेसरिः ।
प्रतीच्यां पातु गरुड उत्तरे पातु सूकरः ।
ऊर्ध्वं हयाननः पातु सर्वतः पातु मृत्युहा ॥ १५ ॥

वानरः पूर्वतः पातु आग्नेय्यां वायुनन्दनः ।
दक्षिणे पातु हनुमान् निरृते केसरीप्रियः ॥ १६ ॥

प्रतीच्यां पातु दैत्यारिः वायव्यां पातु मङ्गलः ।
उत्तरे रामदासस्तु निम्नं युद्धविशारदः ॥ १७ ॥

ऊर्ध्वे रामसखः पातु पाताले च कपीश्वरः ।
सर्वतः पातु पञ्चास्यः सर्वरोगनिकृन्तनः ॥ १८ ॥

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीचिमक्षघ्नो उदीच्यां सागरतारकः ॥ १९ ॥

ऊर्ध्वं केसरीनन्दनः पात्वधस्ताद्विष्णुभक्तः ।
पातु मध्यप्रदेशे तु सर्वलङ्काविदाहकः ।
एवं सर्वतो मां पातु पञ्चवक्त्रः सदा कपिः ॥ २० ॥

सुग्रीवसचिवः पातु मस्तकं मम सर्वदा ।
वायुनन्दनः फालं मे महावीरः भ्रूमध्यमम् ॥ २१ ॥

नेत्रे छायापहारी च पातु श्रोत्रे प्लवङ्गमः ।
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ॥ २२ ॥

नासाग्रमञ्जनासूनुः पातु वक्त्रः हरीश्वरः ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ २३ ॥

जानौ पातु महातेजः कूर्परौ चरणायुधः ।
नखान् नखायुधः पातु कक्षं पातु कपीश्वरः ॥ २४ ॥

सीताशोकापहारी तु स्तनौ पातु निरन्तरम् ।
लक्ष्मणप्राणदाताऽसौ कुक्षि पात्वनिशं मम ॥ २५ ॥

वक्षौ मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्खिणीभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ २६ ॥

नाभिं च रामदासस्तु कटिं पात्वनिलात्मजः ।
गुह्यं पातु महाप्राज्ञः सन्धौ पातु शिवप्रियः ॥ २७ ॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घौ पातु कपिश्रेष्ठः गुल्फौ पातु महाबलः ॥ २८ ॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
अङ्गान्यमितसत्वाढ्यः पातु पादाङ्गुलिः सदा ॥ २९ ॥

सर्वाङ्गानि महाशूरः पातु मां रोमवान् सदा ।
भार्यां पातु महातेजः पुत्रान् पातु नखायुधः ॥ ३० ॥

पशून् पञ्चाननः पातु क्षेत्रं पातु कपीश्वरः ।
बन्धून् पातु रघुश्रेष्ठः दासः पवनसम्भवः ।
सीता शोकापहारी सः गृहान् मम सदाऽवतु ॥ ३१ ॥

हनूमत् पञ्जरं यस्तु पठेद्विद्वान् विचक्षणः ।
स एष पुरुषश्रेष्ठो भक्ति मुक्तिं च विन्दति ॥ ३२ ॥

कालत्रयेऽप्येककाले पठेन्मासत्रयं नरः ।
सर्वशत्रून् क्षणे जित्वा स्वयं च विजयी भवेत् ॥ ३३ ॥

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि ।
क्षयापस्मार कुष्ठादि तापज्वरनिवारणम् ॥ ३४ ॥

अर्कवारेऽश्वत्थमूले स्थित्वा पठति यः पुमान् ।
स पुमान् श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ ३५ ॥

अनेन मन्त्रितं चापि यः पिबेत् रोगपीडितः ।
स नरो रोगनिर्मुक्तः सुखी भवति निश्चयः ॥ ३६ ॥

यो नित्यं ध्यायेद्यस्तु सर्वमन्त्रविनिर्मितम् ।
तं दृष्ट्वा देवताः सर्वे नमस्यन्ति कपीश्वरम् ॥ ३७ ॥

राक्षसास्तु पलायन्ते भूता धावन्ति सर्वतः ।
इदं पञ्जरमज्ञात्वा यो जपन्मन्त्रनायकम् ॥ ३८ ॥

न शीघ्रं फलमाप्नोति सत्यं सत्यं मयोदितम् ।
त्रिकालमेककालं वा पञ्जरं धारयेच्छुभम् ॥ ३९ ॥

पञ्जरं विधिवज्जप्त्वा स्तोत्रैः वेदान्तसम्मितैः ।
तोषयेदञ्जनासूनुं सर्वराक्षसमर्दनम् ॥ ४० ॥

इतीदं पञ्जरं यस्तु पञ्चवक्त्रहनूमतः ।
धारयेत् श्रावयेद्वापि कृतकृत्यो भवेन्नरः ॥ ४१ ॥

इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्री पञ्चमुख हनुमत् पञ्जरं नाम चतुः सप्ततितमः पटलः ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments