Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसम्यमान्गुणैः
स्वलीलया सन्दधतेऽव्ययात्मने ॥ १ ॥
श्रीरुद्र उवाच ।
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २ ॥
इन्द्र उवाच ।
प्रत्यानीताः परम भवता त्रायता नः स्वभागाः
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३ ॥
ऋषय ऊचुः ।
त्वं नस्तपः परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाऽद्य शरण्यपाल
रक्षागृहीतवपुषा पुनरन्वमस्थाः ॥ ४ ॥
पितर ऊचुः ।
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैः
दत्तानि तीर्थसमयेऽप्यपि यत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्छत्
तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ५ ॥
सिद्धा ऊचुः ।
यो नो गतिं योगसिद्धामसाधु-
-रहारषीद्योगतपोबलेन ।
नानादर्पं तं नखैर्निर्ददार
तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६ ॥
विद्याधरा ऊचुः ।
विद्यां पृथग्धारणयाऽनुराद्धां
न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन सङ्ख्ये पशुबद्धतस्तं
मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७ ॥
नागा ऊचुः ।
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षः पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८ ॥
मनव ऊचुः ।
मनवो वयं तव निदेशकारिणो
दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो
करवाम ते किमनुशाधि किङ्करान् ॥ ९ ॥
प्रजापतय ऊचुः ।
प्रजेशा वयं ते परेशाभिसृष्टा
न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षा नु शेते
जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥ १० ॥
गन्धर्वा ऊचुः ।
वयं विभो ते नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां
किमुत्पथस्थः कुशलाय कल्पते ॥ ११ ॥
चारणा ऊचुः ।
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रितः ।
यदेव साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२ ॥
यक्षा ऊचुः ।
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै-
-स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३ ॥
किम्पुरुषा ऊचुः ।
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४ ॥
वैतालिका ऊचुः ।
सभासु सत्त्रेषु तवामलं यशो
गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो
दिष्ट्या हतस्ते भगवन्यथाऽऽमयः ॥ १५ ॥
किन्नरा ऊचुः ।
वयमीश किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव ॥ १६ ॥
विष्णुपार्षदा ऊचुः ।
अद्यैतद्धरिनररूपमद्भुतं ते
दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्त-
-स्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७ ॥
इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यवधे श्री नृसिंह स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.