Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ १ ॥
रामपत्नी तु प्रत्यङ्गे रामेश्वरी सदाऽवतु ।
विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥ २ ॥
जयदात्री धनदात्री पाशाक्षमालिनी शुभा ।
हरिप्रिया हरिरामा जयङ्करी महोदरी ॥ ३ ॥
कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी ।
जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥ ४ ॥
सुखदा मोक्षदा देवी चित्रकूटनिवासिनी ।
भयं हरतु भक्तानां भवबन्धं विमुञ्चतु ॥ ५ ॥
कवचं तन्महापुण्यं यः पठेद्भक्तिसम्युतः ।
त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥ ६ ॥
कवचस्यास्य पठनं धनपुत्रविवर्धनम् ।
भीतिविनाशनं चैव त्रिषु लोकेषु कीर्तितम् ॥ ७ ॥
भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।
धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥ ८ ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥ ९ ॥
गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् ।
धारयेद्यदि कण्ठे च अथवा वामबाहुके ॥ १० ॥
यः पठेन्नियतो भक्त्या स एव विष्णुवद्भवेत् ।
मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥ ११ ॥
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।
सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥ १२ ॥
सङ्कटे विपदे घोरे तथा च गहने वने ।
राजद्वारे च नौकायां तथा च रणमध्यतः ॥ १३ ॥
पठनाद्धारणादस्य जयमाप्नोति निश्चितम् ।
अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयाद्यदि ॥ १४ ॥
सुपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् ।
शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रतः ॥ १५ ॥
सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते ।
मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ॥ १६ ॥
रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः ।
लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ॥ १७ ॥
स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् ।
शृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ॥ १८ ॥
यः पुमान्सततं तस्मिन्प्रसन्नाः सर्वदेवताः ।
बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ॥ १९ ॥
आद्याशक्तिः सदालक्ष्मीर्भक्तानुग्रहकारिणी ।
धारके पाठके चैव निश्चला निवसेद्ध्रुवम् ॥ २० ॥
इति श्री लक्ष्मी कवचम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.