Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्र्यैलोक्यलक्ष्मीमदभृत्सुरेश्वरो
यदा घनैरन्तकरैर्ववर्षह ।
तदाऽकरोद्यः स्वबलेन रक्षणं
तं गोपबालं गिरिधारिणं भजे ॥ १ ॥
यः पाययन्तीमधिरुह्य पूतनां
स्तन्यं पपौ प्राणपरायणः शिशुः ।
जघान वातायितदैत्यपुङ्गवं
तं गोपबालं गिरिधारिणं भजे ॥ २ ॥
नन्दव्रजं यः स्वरुचेन्दिरालयं
चक्रे दिगीशान् दिवि मोहवृद्धये ।
गोगोपगोपीजनसर्वसौख्यकृत्
तं गोपबालं गिरिधारिणं भजे ॥ ३ ॥
यं कामदोग्ध्री गगनाहृतैर्जलैः
स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत ।
गोविन्दनामोत्सवकृद्व्रजौकसां
तं गोपबालं गिरिधारिणं भजे ॥ ४ ॥
यस्याननाब्जं व्रजसुन्दरीजना
दिनक्षये लोचनषट्पदैर्मुदा ।
पिबन्त्यधीरा विरहातुरा भृशं
तं गोपबालं गिरिधारिणं भजे ॥ ५ ॥
बृन्दावने निर्जरबृन्दवन्दिते
गाश्चारयन्यः कलवेणुनिःस्वनः ।
गोपाङ्गनाचित्तविमोहमन्मथ-
-स्तं गोपबालं गिरिधारिणं भजे ॥ ६ ॥
यः स्वात्मलीलारसदित्सया सता-
-माविश्यकाराऽग्निकुमारविग्रहम् ।
श्रीवल्लभाध्वानुसृतैकपालक-
-स्तं गोपबालं गिरिधारिणं भजे ॥ ७ ॥
गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं
पठेदिदं यस्तदनन्यमानसः ।
स मुच्यते दुःखमहार्णवाद्भृशं
प्राप्नोति दास्यं गिरिधारिणो ध्रुवम् ॥ ८ ॥
प्रणम्य सम्प्रार्थयते तवाग्रत-
-स्त्वदङ्घ्रिरेणुं रघुनाथनामकः ।
श्रीविठ्ठलानुग्रहलब्धसन्मति-
-स्तत्पूरयैतस्य मनोरथार्णवम् ॥ ९ ॥
इति श्रीरघुनाथप्रभु कृत श्री गिरिधार्यष्टकम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.