Site icon Stotra Nidhi

Sri Ganesha Vajra Panjara Stotram – श्री गणेश वज्रपञ्जर स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ध्यानम् ।
त्रिनेत्रं गजास्यं चतुर्बाहुधारं
परश्वादिशस्त्रैर्युतं भालचन्द्रम् ।
नराकारदेहं सदा योगशान्तं
गणेशं भजे सर्ववन्द्यं परेशम् ॥ १ ॥

बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ २ ॥

देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ३ ॥

महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४ ॥

साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ५ ॥

सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ६ ॥

आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ७ ॥

अव्यक्तेषु स्थितं नित्यं धूम्रवर्णः स्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ८ ॥

स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ ९ ॥

अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ १० ॥

योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ११ ॥

पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ १२ ॥

रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ १३ ॥

ऊर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ १४ ॥

यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
पुरशुपाशसम्युक्तो वरदाभयधारकः ॥ १५ ॥

इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ १६ ॥

य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ १७ ॥

यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत्सर्वत्र मानवः ॥ १८ ॥

त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ १९ ॥

यः शृणोति गणेशस्य पञ्जरं वज्रसञ्ज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ २० ॥

धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ २१ ॥

न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ २२ ॥

यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ २३ ॥

लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् ।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ २४ ॥

एवमुक्त्वा गणेशानोऽन्तर्दधे मुनिसत्तम ।
शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ २५ ॥

इति श्रीमन्मुद्गले महापुराणे धूम्रवर्णचरिते वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments