Site icon Stotra Nidhi

Sri Dakshinamurthy Mantrarna Ashtottara Shatanama Stotram – श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीदेव्युवाच ।
भगवन् देवदेवेश मन्त्रार्णस्तवमुत्तमम् ।
दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥ १ ॥

श्रीमहादेव उवाच ।
साधु पृष्टं महादेवि सर्वलोकहिताय ते ।
वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥ २ ॥

ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् ।
मूलमन्त्रपदस्यापि द्रष्टव्यं सकलं हि तत् ॥ ३ ॥

ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ४ ॥

इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् ।
जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितः ॥ ५ ॥

स्तोत्रम् –
ओम् । ओङ्काराचलसिंहेन्द्रः ओङ्कारोद्यानकोकिलः ।
ओङ्कारनीडशुकराडोङ्कारारण्यकुञ्जरः ॥ ६ ॥

नगराजसुताजानिर्नगराजनिजालयः ।
नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥ ७ ॥

नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः ।
मोहानलसुधाधारो मोहाम्बुजसुधाकरः ॥ ८ ॥

मोहान्धकारतरणिर्मोहोत्पलनभोमणिः ।
भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥ ९ ॥

भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः ।
भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥ १० ॥

गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः ।
गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥ ११ ॥

गगनाम्बरसंवीतो गगनामुक्तमूर्धजः ।
वदनाब्जजितश्रीश्च वदनेन्दुस्फुरद्दिशः ॥ १२ ॥

वरदानैकनिपुणो वरवीणोज्ज्वलत्करः ।
वनवाससमुल्लासी वनलीलैकलोलुपः ॥ १३ ॥

तेजःपुञ्जघनाकारो तेजसामविभासकः ।
तेजःप्रदो विधेयानां तेजोमयनिजाश्रमः ॥ १४ ॥

दमितानङ्गसङ्ग्रामो दरहासोज्ज्वलन्मुखः ।
दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥ १५ ॥

क्षीरेन्दुस्फटिकाकारः क्षितीन्द्रमकुटोज्ज्वलः ।
क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥ १६ ॥

नानाभरणमुक्ताङ्गो नारीसम्मोहनाकृतिः ।
नादब्रह्मरसास्वादी नागभूषणभूषितः ॥ १७ ॥

मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः ।
मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥ १८ ॥

तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः ।
तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥ १९ ॥

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः ।
यमसन्नुतसत्कीर्तिः यमसम्यमसम्युतः ॥ २० ॥

यतिरूपधरो मौनमुनीन्द्रोपास्यविग्रहः ।
मन्दारहाररुचिरो मदनायुतसुन्दरः ॥ २१ ॥

मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः ।
मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥ २२ ॥

हस्ताङ्कुरितचिन्मुद्रो हंसयोगपटूत्तमः ।
हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥ २३ ॥

मेरुशृङ्गसमुल्लासी मेघश्याममनोहरः ।
मेघाङ्कुरालवालाग्र्यो मेधापक्वफलद्रुमः ॥ २४ ॥

धार्मिकान्तकृतावासो धर्ममार्गप्रवर्तकः ।
धामत्रयनिजारामो धरोत्तममहारथः ॥ २५ ॥

प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः ।
प्रज्ञाचन्द्रशिलाचन्द्रः प्रज्ञामणिलसत्करः ॥ २६ ॥

ज्ञानिहृद्भासमानात्मा ज्ञातॄणामविदूरगः ।
ज्ञानायादृतदिव्याङ्गो ज्ञातिजातिकुलातिगः ॥ २७ ॥

प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिबाडबः ।
प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥ २८ ॥

यमिसत्तमसंसेव्यो यक्षगेयात्मवैभवः ।
यज्ञाधिदेवतामूर्तिः यजमानवपुर्धरः ॥ २९ ॥

छत्राधिपदिगीशश्च छत्रचामरसेवितः ।
छन्दः शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥ ३० ॥

स्वाभाविकसुखैकात्मा स्वानुभूतिरसोदधिः ।
स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥ ३१ ॥

हाटकाभजटाजूटो हासोदस्तारिमण्डलः ।
हालाहलोज्ज्वलगलो हारायितभुजङ्गमः ॥ ३२ ॥

इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments