Site icon Stotra Nidhi

Sri Dakshinamurthy Kavacham (Trailokya Sammohanam) – श्री दक्षिणामूर्ति कवचम् (त्रैलोक्यसम्मोहनम्)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

गङ्गाधरं शशिधरं उमाकान्तं जगत्प्रभुम् ।
दधतं ज्ञानमुद्रां च दक्षिणामूर्तिमाश्रये ॥ १ ॥

आगतं मुनिशार्दूलं नारदं ज्ञानदं सदा ।
दृष्ट्वा राजा महाबाहुः सूर्यवंशसमुद्भवः ।
हरिश्चन्द्राभिधो नत्वा प्रोवाचेदं शुचिस्मितः ॥ २ ॥

हरिश्चन्द्र उवाच ।
देवर्षे श्रोतुमिच्छामि कवचं मन्त्रविग्रहम् ।
दक्षिणामूर्तिदेवस्य वद मे नारद प्रभो ॥ ३ ॥

नारद उवाच ।
शृणु राजन् प्रवक्ष्यामि सर्वसम्पत्प्रदायकम् ।
दक्षिणामूर्तिदेवस्य कवचं मङ्गलालयम् ॥ ४ ॥

यस्य श्रवणमात्रेण चाष्टसिद्धिर्भविष्यति ।
राज्यसिद्धिर्मन्त्रसिद्धिर्विद्यासिद्धिर्महेश्वर ॥ ५ ॥

भवत्यचिरकालेन दक्षिणामूर्तिवर्मतः ।
पुरा वैकुण्ठनिलयं भगवन्तं मुरान्तकम् ॥ ६ ॥

चतुर्बाहुमनाद्यन्तं अच्युतं पीतवाससम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ ७ ॥

सृष्टिस्थित्युपसंहारहेतुभूतं सनातनम् ।
सर्वमन्त्रमयं देवं शैवागमपरायणम् ॥ ८ ॥

शैवदीक्षापरं नित्यं शैवतत्त्वपरायणम् ।
दक्षिणामूर्ति देवस्य मन्त्रोपासनतत्परम् ।
कमला प्रणता भूत्वा पप्रच्छ विनयान्वितम् ॥ ९ ॥

श्रीमहालक्ष्मीरुवाच ।
नारायण जगन्नाथ सर्वमङ्गलदायक ।
दक्षिणामूर्ति देवस्य कवचं वद मे प्रभो ॥ १० ॥

श्रीनारायण उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं देवि सर्वतन्त्रेषुसिद्धिदम् ॥ ११ ॥

दक्षिणामूर्तिदेवस्य सर्वज्ञानोदयस्य च ।
त्रैलोक्यसंमोहनाख्यं ब्रह्ममन्त्रौघविग्रहम् ॥ १२ ॥

सर्वपापप्रशमनं भूतोच्चाटनकारकम् ।
जयप्रदं भूपतीनां सर्वसिद्धिप्रदायकम् ॥ १३ ॥

लक्ष्मीविद्याप्रदं भद्रे सुखसाधनमुत्तमम् ।
कवचस्यास्य देवेशि ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १४ ॥

गायत्रीच्छन्द आदिष्ट देवता दक्षिणाभिदः ।
विष्टपत्रयसंमोहजननायाष्टसिद्धिषु ।
न्यासो मूलेन वै कार्यस्ततो मन्त्रार्णकं चरेत् ॥ १५ ॥

अस्य श्रीदक्षिणामूर्ति त्रैलोक्यसंमोहन कवच महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः त्रैलोक्यसंमोहननामक श्रीदक्षिणामूर्तिर्देवता ह्रीं बीजं नमः शक्तिः ओं कीलकं मम त्रैलोक्यसंमोहन सकलसाम्राज्यदायक श्रीदक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

न्यासः –
ओं नमो भगवते दक्षिणामूर्तये – अङ्गुष्ठाभ्यां नमः ।
तुभ्यं – तर्जनीभ्यां नमः ।
जगद्वश्यकराय च – मध्यमाभ्यां नमः ।
त्रैलोक्यसंमोहनाय – अनामिकाभ्यां नमः ।
नमः – कनिष्ठिकाभ्यां नमः ।
सद्गतिदायिने – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥

अक्षरन्यासः –
ओं दं – शिरसि । ओं क्षिं – दक्षिणनेत्रे । ओं णां – वामनेत्रे । ओं मूं – दक्षिणकर्णे । ओं र्तं – वामकर्णे । ओं यें – दक्षिणनासिकायाम् । ओं तुं – वामनासिकायाम् । ओं भ्यं – दक्षिणगण्डे । ओं जं – वामगण्डे । ओं गं – ऊर्ध्वदन्तपङ्क्तौ । ओं द्वं – अधोदन्तपक्तौ । ओं श्यं – ऊर्ध्वोष्ठे । ओं कं – अधरोष्ठे । ओं रां – कण्ठे । ओं यं – हृदि । ओं चं – दक्षबाहौ । ओं त्रैं – वामबाहौ । ओं लों – कुक्षौ । ओं क्यं – पृष्ठे । ओं सं – नाभौ । ओं मों – जठरे । ओं हं – लिङ्गे । ओं नां – मूलाधारे । ओं यं – दक्षजानौ । ओं नं – वामजानौ । ओं मों – दक्षोरौ । ओं सं – वामोरौ । ओं द्गं – जङ्घयोः । ओं तिं – दक्षिणपार्ष्णौ । ओं दां – वामपार्ष्णौ । ओं यिं – दक्षपादे । ओं नें – वामपादे ।

ध्यानम् –
ध्यायेन्नित्यं निरीहं निरुपममकलं ज्योतिरानन्दकन्दं
सच्चिद्ब्रह्मामृताख्यं निरतिशयसुखं निर्गुणं निर्विकारम् ।
विश्वात्माकारमेकं विदलितकलुषं दुस्तराज्ञानधर्मा-
-निर्मुक्तात्मस्वरूपं शिवमनिशमहं पूर्णबोधैकरूपम् ॥

एवं ध्यात्वा रमादेवि पञ्चपूजां समाचरेत् ॥

मनुः –
ओम् । दक्षिणामूर्तये तुभ्यं जगद्वश्यकराय च ।
त्रैलोक्यसंमोहनाय नमः सद्गतिदायिने ॥ १ ॥

एवं द्वात्रिंशद्वर्णाख्यं मन्त्रं सम्यग्जपेत् प्रिये ।
ततस्तु प्रपठेद्देवि कवचं मन्त्रविग्रहम् ॥ २ ॥

कवचं –
ओम् । प्रणवो मे शिरः पातु तारको ब्रह्मसञ्ज्ञिकः ।
ओं दक्षिणामूर्तये तु तथा तुभ्यं ततः परम् ॥ ३ ॥

जगद्वश्यकराय त्रैलोक्यसंमोहनाय च ।
नमस्तथा सद्गतीति दायिने च पदं ततः ॥ ४ ॥

द्वात्रिंशद्वर्णकं मन्त्रं मुखं वृत्तं सदाऽवतु ।
ओं नमो भगवतेति दक्षिणामूर्तयेति च ॥ ५ ॥

मह्यं मेधां तथा प्रज्ञां प्रयच्छेति पदं ततः ।
स्वाहापदान्वितं मन्त्रं चतुर्विंशार्णकं सदा ॥ ६ ॥

दक्षिणं नेत्रकं पातु सर्वसम्पत्प्रदायकम् ।
ओं ऐं नमः क्लीं शिवाय सौः पदेन समन्वितम् ॥ ७ ॥

नवार्णं पातु सततं वामनेत्रं सुखप्रदम् ।
प्रणवेन समायुक्तं मायया च समन्वितम् ॥ ८ ॥

दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ।
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥ ९ ॥

मायातारान्वितं मन्त्रं षट्त्रिंशद्वर्णसम्युतम् ।
मम नेत्रद्वयं पातु सर्वसौभाग्यदायकम् ॥ १० ॥

ओं नमो भगवते चैव दक्षिणामूर्तयेति च ।
हंसः सोऽहं तथा मह्यं मेधां प्रज्ञां ततः परम् ॥ ११ ॥

प्रयच्छ स्वाहा च तथा चाष्टाविंशार्णको मनुः ।
मम कर्णद्वयं पातु सदा राज्यफलप्रदः ॥ १२ ॥

प्रणवेन समायुक्तो मायया च समन्वितः ।
वाग्भवेन समायुक्तो ऐं ह्रीमिति समन्वितः ॥ १३ ॥

विद्याराशिस्रवन्मेषु स्फुरदूर्मिगणोल्बणः ।
उमासार्धशरीराय नमस्ते परमात्मने ॥ १४ ॥

सप्तत्रिंशार्णकः पातु मनुर्नासाद्वयं मम ।
प्रणवेन समायुक्तः मायाबीजसमन्वितः ॥ १५ ॥

अज्ञानेन्धनदीप्ताय ज्ञानाग्निज्वलदीप्तये ।
आनन्दाज्यहविःप्रीत सद्ज्ञानं च प्रयच्छ मे ॥ १६ ॥

द्वात्रिंशद्वर्णसम्युक्तो लकुटाख्यमहेशितुः ।
मनुः फालनेत्रयुग्मं पायान्मम सुखप्रदः ॥ १७ ॥

ओं ह्रीं ह्रां बीजयुतं च सर्वमङ्गलदायकम् ।
दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ॥ १८ ॥

ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ।
ओं ह्रां ह्रीं ओमिति च तथा वटमूलाख्यकं शुभम् ॥ १९ ॥

कण्ठं पायान्मम सदा अष्टत्रिंशाक्षराभिधः ।
प्रणवेन समायुक्तो वाग्भवेन समन्वितः ॥ २० ॥

मायाबीजसमायुक्तः सौः कारेण समन्वितः ।
मनुर्ममोदरं पातु सदा वागीश्वराभिदः ॥ २१ ॥

पार्श्वयोरुभयोस्तारं मायाबीजान्वितं सदा ।
पायादेकार्णकं मन्त्रं नाभिं मम महेशितुः ॥ २२ ॥

वागीश्वरायेति पदं विद्महेति पदं ततः ।
विद्यावासायेति पदं धीमहीति पदं ततः ॥ २३ ॥

तन्नो दक्षिणामूर्तिश्च प्रचोदयात्ततः परम् ।
गायत्री दक्षिणामूर्तेः पातु पादद्वयं मम ॥ २४ ॥

ओं नमो भगवतेति शिरः पायात्सदा मम ।
ह्रां दक्षिणामूर्तयेति नमो मुखं सदाऽवतु ॥ २५ ॥

ह्रीं दक्षिणामूर्तयेति नमोऽव्याद्दक्षिणादिकम् ।
ह्रूं दक्षिणामूर्तयेति नमो नेत्रं तु वामकम् ॥ २६ ॥

ह्रैं दक्षिणामूर्तयेति नमोऽव्यान्नेत्रयुग्मकम् ।
ह्रौं दक्षिणामूर्तयेति नमो दक्षिणकर्णकम् ॥ २७ ॥

ह्रः दक्षिणामूर्तयेति नमोऽव्याद्वामकर्णकम् ।
द्रां दक्षिणामूर्तयेति नमोऽव्याद्गण्डयुग्मकम् ॥ २८ ॥

द्रीं दक्षिणामूर्तयेति नमोऽव्याद्दक्षनासिकाम् ।
द्रूं दक्षिणामूर्तयेति नमोऽव्याद्वामनासिकाम् ॥ २९ ॥

द्रैं दक्षिणामूर्तयेति नमः फालं सदा मम ।
द्रौं दक्षिणामूर्तयेति नमः श्रोत्रद्वयेऽवतु ॥ ३० ॥

द्रः दक्षिणामूर्तयेति नमस्त्वंसद्वयं मम ।
क्लां दक्षिणामूर्तयेति नमो बाहुद्वयेऽवतु ॥ ३१ ॥

क्लीं दक्षिणामूर्तयेति नमः श्रोतद्वयेऽवतु ।
क्लूं दक्षिणामूर्तयेति नमो नाभिं सदाऽवतु ॥ ३२ ॥

क्लैं दक्षिणामूर्तयेति जानुयुग्मं सदाऽवतु ।
क्लौं दक्षिणामूर्तयेति नमः पादद्वयं मम ॥ ३३ ॥

पादद्वयं दक्षिणास्यः पातु मे जगतां प्रभुः ।
गुल्फद्वयं जगन्नाथं पातु मे पार्वतीपतिः ॥ ३४ ॥

ऊरुद्वयं महादेवो जानुयुग्मं जगत्प्रभुः ।
गुह्यदेशं मधुध्वंसी नाभिं पातु पुरान्तकः ॥ ३५ ॥

कुक्षिं पातु जगद्रूपी स्तनयुग्मं त्रिलोचनः ।
करद्वयं शूलपाणिः स्कन्धौ पातु शिवाप्रियः ॥ ३६ ॥

श्रीकण्ठः पातु मे कण्ठं मुखं पद्मासनोऽवतु ।
नेत्रयुग्मं त्रिनेत्रोऽव्यान्नासां पातु सदाशिवः ॥ ३७ ॥

वेदस्तुतो मे श्रवणे फालं पातु महाबलः ।
शिरो मे भगवान् पातु केशान् सर्वेश्वेरोऽवतु ॥ ३८ ॥

प्राच्यां रक्षतु लोकेशस्त्वाग्नेय्यां पातु शङ्करः ।
दक्षिणस्यां जगन्नाथो नैरृत्यां पार्वतीपतिः ॥ ३९ ॥

प्रतीच्यां त्रिपुरध्वंसी वायव्यां पातु सर्वगः ।
उत्तरस्यां दिशि सदा कुबेरस्य सखा मम ॥ ४० ॥

ऐशान्यामीश्वरः पातु सर्वतः पातु सर्वगः ।
शिखां जटाधरः पातु शिरो गङ्गाधरोऽवतु ॥ ४१ ॥

फालं पायात् त्रिनेत्रो मे भृवौ पायाज्जगन्मयः ।
त्र्यक्षो नेत्रद्वयं पातु श्रुती श्रुतिशिखामयः ॥ ४२ ॥

सुरश्रेष्ठो मुखं पातु नासां पातु शिवापतिः ।
जिह्वां मे दक्षिणामूर्तिः हनू पातु महाबलः ॥ ४३ ॥

पातु कण्ठं जगद्गर्भः स्कन्धौ परमरूपधृत् ।
करौ पातु महाप्राज्ञो भक्तसंरक्षणे रतः ॥ ४४ ॥

ईशानो हृदयं पातु मध्यं सूक्ष्मस्वरूपधृत् ।
महात्मा पातु मे नाभिं कटिं पातु हरिप्रियः ॥ ४५ ॥

पातु गुह्यं महादेवो मेढ्रं पातु सुरेश्वरः ।
ऊरुद्वयं दक्षिणास्यो जानुयुग्मं सुजानुभृत् ॥ ४६ ॥

पातु जङ्घे मम हरः पादौ पातु सदाशिवः ।
मम पात्वखिलं देहं सर्वदैवतपूजितः ॥ ४७ ॥

वस्तिं रक्षतु गौरीशः पायु रक्षतु मङ्गलः ।
कैलासनिलयः पातु गृहं मे भूतभावनः ॥ ४८ ॥

अष्टमूर्तिः सदा पातु भक्तान् भृत्यान् सदाशिवः ।
लक्ष्मीप्रदः श्रियं पातु आसीनं पातु सर्वगः ॥ ४९ ॥

पायात्पुरारिर्घोरेभ्यः भयेभ्यः पातु मां हरः ।
उदये पातु भगवान् प्रथमे प्रहरे हरः ॥ ५० ॥

यामे द्वितीये गिरिशः आवर्ते दक्षिणामुखः ।
यामे तृतीये भूतेशश्चन्द्रमौलिश्चतुर्थके ॥ ५१ ॥

निशादौ जगतां नाथस्त्वर्धरात्रे शिवोऽवतु ।
निशा तृतीययामे मां पातु गङ्गाधरो हरः ॥ ५२ ॥

प्रभातायां दयासिन्धुः पायान्मां पार्वतीपतिः ।
सुप्तं मां पातु जटिलः विसुप्तं फणिभूषणः ॥ ५३ ॥

श्रीकण्ठः पातु मां मार्गे ग्रामेत्वन्यत्र शूलभृत् ।
किरातः पातु गहने शैले शैलसुतापतिः ॥ ५४ ॥

वीध्यां पातु महाबाहुः पिनाकी पातु मां रणे ।
जले पशुपतिः पातु स्थले पातु स्थलाधिपः ॥ ५५ ॥

पुर्यां पुराधिपः पातु दुर्गे दुर्गामनोहरः ।
पायाद्वृक्षसमीपे मां नक्षत्राधिपभूषणः ॥ ५६ ॥

प्रासादे भित्तिदेशे वा निर्घाते वा शनौ तथा ।
सर्वकाले सर्वदेशे पातु मां दक्षिणामुखः ॥ ५७ ॥

पूर्वदेशोपद्रवेभ्यः पातु मां पार्वतीप्रियः ।
आग्नेयीभ्यः तथा रुद्रो याम्येभ्यः पातु मृत्युहा ॥ ५८ ॥

नैरृतेभ्यः पातु हरः पश्चिमेभ्यो रमार्चितः ।
वायव्येभ्यो देवदेवः कौबेरेभ्यो निधिप्रियः ॥ ५९ ॥

ऐशानेभ्यो रुद्रमूर्तिः पातु मामूर्ध्वतः प्रभुः ।
अधस्तेभ्यो भूतनाथः पातु मामादिपूरुषः ॥ ६० ॥

इति कवचं बाले सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यसंमोहनाख्यां दक्षिणामूर्तिशर्मणः ॥ ६१ ॥

प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ।
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ ६२ ॥

कीर्तिं श्रियं च मेधां च प्रज्ञां प्राप्नोति मानवः ।
श्रीदक्षिणामूर्तिमन्त्रमयं देवि मयोदितम् ॥ ६३ ॥

गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेत्ततः ।
द्विः सकृद्वा यथा न्यायं सोऽपि पुण्यवतां नरः ॥ ६४ ॥

देवमभ्यर्च्य विधिवत्पुरश्चर्यां समाचरेत् ।
अष्टोत्तरशतं जप्त्वा दशांशं होममाचरेत् ॥ ६५ ॥

ततस्तु सिद्धकवची सर्वकार्याणि साधयेत् ।
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ६६ ॥

गद्यपद्यमयी वाणी तस्य वक्त्रे प्रवर्तते ।
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ॥ ६७ ॥

पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्ततः ।
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ६८ ॥

विलिख्य भूर्जपत्रे वा स्वर्णे वा धारयेद्यदि ।
कण्ठे वा दक्षिणे बाहौ स कुर्यात् स्ववशं जगत् ॥ ६९ ॥

त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ७० ॥

कौसुमानीव माल्यानि सुगन्धानि भवन्ति हि ।
स्वधाम्नोत्सृज्य भवने लक्ष्मीर्वाणी मुखे वसेत् ॥ ७१ ॥

इदं कवचमज्ञात्वा यो जपेन्मन्त्रनायकम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ७२ ॥

स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन कवचं प्रपठेत् सुधीः ॥ ७३ ॥

नारद उवाच ।
एवमुक्त्वा रमानाथो मन्त्रं लक्ष्म्यै ददौ हरिः ।
ततो ददौ जगन्नाथः कवचं मन्त्रविग्रहम् ॥ ७४ ॥

ततो जजाप कमला सर्वसम्पत् समृद्धये ।
तस्माद्राजेन्द्र कवचं गृहाण प्रददामि ते ॥ ७५ ॥

तस्य स्मरणमात्रेण जगद्वश्यं भविष्यति ।
इत्युक्त्वा नारदऋषिः हरिश्चन्द्रं नरेश्वरम् ।
ततो ययौ स्वैरगतिः कैलासं प्रति नारदः ॥ ७६ ॥

इति श्रीदक्षिणामूर्तिसंहितायामुत्तरभागे स्तोत्रखण्डे लक्ष्मीनारायण संवादे श्री दक्षिणामूर्ति त्रैलोक्यसंमोहन कवचं नाम चतुश्चत्वारिंशोऽध्यायः ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments