Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीबगलामुखीमहामन्त्रस्य – नारदो भगवान् ऋषिः – अतिजगतीछन्दः – श्री बगलामुखी देवता – लां बीजं इं शक्तिः – लं कीलकं-मम दूरस्थानां समीपस्थानां गति मति वाक्त्सम्भनार्थे जपे विनियोगः
ओं ह्रीं अङ्गुष्ठाभ्यां नमः
बगलामुखी तर्जनीभ्यां नमः
सर्वदुष्टानां मध्यमाभ्यां नमः
वाचं मुखं पदं स्तम्भय अनामिकाभ्यां नमः
जिह्वां कीलय बुद्धिं विनाशय कनिष्ठिकाभ्यां नमः
ह्रीं ओं स्वाहा करतलकरपृष्टाभ्यां नमः
ओं ह्रीं हृदयाय नमः
बगलामुखी शिरसे स्वाहा
सर्वदुष्टानां शिखायै वषत्
वाचं मुखं पदं स्तम्भय कवचा हुं
जिह्वां कीलय बुद्धिं विनाशय नेत्रत्रयाय वौषट्
ह्रीं ओं स्वाहा अस्त्राय फट्
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
पीताम्बरां त्रिणेत्रां च द्विभुजां दहनोज्वलां ।
शिलापर्वतहस्तां च रिपुकम्पां महोत्कटाम् ॥ १ ॥
गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभां ।
वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ २ ॥
चतुर्भुजां त्रिणयनां कमलासनसंस्थितां ।
दक्षिणे मुद्गरं पाशं वामे जिह्वां च वज्रकम् ॥ ३ ॥
पीताम्बरधरां सान्द्रां दृढपीनयोधरां ।
वैरिवाक्त्सम्भिनीं देवीं स्मरामि बगलामुखीम् ॥ ४ ॥
हेमकुण्डलभूषाङ्गीं शीतचन्द्रार्धशेखरीं ।
पीतभूषणभूषाढ्यां स्वर्णसिंहासनेस्थिताम् ॥ ५ ॥
त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीं ।
सर्वशृङ्गारवेषाढ्यां भजेत्तां बगलामुखीम् ॥ ६ ॥
मध्ये सुधाब्धिमणिमण्टप रत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं नमामि धृत मुद्गरवैरि जिह्वाम् ॥ ७ ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पक द्युतिमदर्धेन्दु बिम्बाञ्चिताम् ।
सदाहितविपक्षकां दलितवैरि जिह्वाञ्चलां
नमामि बगलामुखीं धीमतां वाङ्मनस्स्तम्भिनीम् ॥ ८ ॥
पीयूषो दधिमध्यचारु विलसद्रत्नोज्वले मण्टपे
यासिंहासन मौलिपातितरिपु प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरशनां भ्राम्यद्गदां बिभ्रतीं
यस्त्वां पश्यति तस्य यान्ति विलयं सद्योहि सर्वापदः ॥ ९ ॥
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं
मुद्रां वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरीं ।
पीठध्यानपरोपि कुम्भकवशाद्बीजं स्मरेत्प्रार्थितं
तस्या मित्रचयस्य संसदि मुख स्तम्भो भवेत्तत्क्षणात् ॥ १० ॥
(ओं ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ओं स्वाहा)
मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रंवादिनि यन्त्रिणं त्रिजगतां जैत्रं स चित्रं च तत् ।
श्रीमातर्बगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
तन्नामस्मरणेन वाग्भवमुख स्तम्भोभवेत्तत्क्षणात् ॥ ११ ॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्त्सम्भनकारणं मृगदृशां चेतस्समाकर्षणं ।
सौभाग्यैकनिकेतनं मम दृशां कारुण्यपूर्णेक्षणे
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ १२ ॥
सङ्ख्याग्रे चोरदण्ड प्रहरणसमये बन्धने वैरिमध्ये
विद्यावादे विवादे प्रकटितनृपतौ युद्धकाले निशायां ।
वश्ये च स्तम्भने वा रिपुवधसमय़े प्राणबाधे रणे वा
गच्छन्तीष्टं त्रिकालं तव पठनमिदं कारयेदाशु धीरः ॥ १३ ॥
मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय मुद्रयाशुधिषणामङ्घ्र्योर्गतिं स्तम्भय ।
शत्रून् चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रतिदिनं क्ॐआरि वामेक्षणे ॥ १४ ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीनित्ये बगले महेशि समये रामे सुरामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
वन्देहं शरणागतोस्मिकृपया विश्वेश्वरी त्राहि माम् ॥ १५ ॥
त्वं विद्या परमा त्रिलोकजननी व्योषाननं छेदिनी
योषाकर्षणकारिणी च सुमहाबन्धैकसम्भेदिनी ।
दुष्टोच्चाटनकारिणी रिपुमनस्सन्दोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रसारायणी ॥ १६ ॥
यः कृतं जपसङ्ख्यानां चिन्तितं परमेश्वरी ।
शत्रूणां बुद्धिनाशाय गृहाण मदनुग्रहात् ॥ १७ ॥
वैडूर्यहारपरिशोभितहेममालां
मध्येतिपीन कुचयोर्धृतपीतवस्त्रां ।
व्य़ाघ्राधिरूढ परिपूरित रत्नशोभां
नित्यं स्मरामि बगलां रिपुवक्त्र कीलाम् ॥ १८ ॥
एकाग्र मानसो भूत्वा स्तोष्यत्यम्बां सुशोभनां ।
रजन्या रचितां मालां करे धृत्वा जपेच्छुचिः ॥ १९ ॥
वामे पाणौ तु पाशं च तस्याधस्ताद्धृढं शुभं ।
दक्षे करेऽक्षसूत्रं च अधःपद्मं च धारिणीम् ॥ २० ॥
चामुण्डे चण्डिकोष्ट्रे हुतवहदयिते श्यामले श्रीभुजङ्गी
दुर्गे प्रत्यङ्गिराद्ये मुररिपुभगिनी भार्गवीवामनेत्रे ।
नानारूपप्रभेदे स्थितिलयजननं पालयद्भर्गहृद्ये
विश्वाद्ये विश्वजैत्री त्रिपुरः बगले विश्ववन्द्ये त्वमेका ॥ २१ ॥
चक्रं खड्गं मुसलमभयं दक्षिणाभिश्च दोर्भिः
शङ्खं खेटं हलमपि च गदां बिभ्रतीं वामदोर्भिः ।
सिंहारूढामयुगनयनां श्यामलां कञ्जवक्त्रां
वन्दे देवीं सकलवरदां पञ्चमीं मातृमध्याम् ॥ २२ ॥
द्वात्रिम्शदायुतयुतैश्चतुरष्टहस्तै-
रष्टोत्तरैश्शतकरैश्च सहस्रहस्तैः ।
सर्वायुधैरयुत बाहुभिरन्वितां तां
देवीं भजामि बगलां रसनाग्रहस्ताम् ॥ २३ ॥
सर्वतश्शुभकरां द्विभुजां तां
कम्बुहेम नवकुण्डल कर्णां ।
शत्रुनिर्दलनकारणकोपां
चिन्तयामि बगलां हृदयाब्जे ॥ २४ ॥
जिह्वाग्रमादाय़ करेण देवीं
वामेन शत्रून् परिपीडयन्तीं ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥ २५ ॥
वन्दे वारिजलोचनां वसुकरां पीताम्बराडम्बरां
पीताम्भोरुहसंस्थितां त्रिनयनां पीताङ्गरागोज्ज्वलां ।
शब्दब्रह्ममयीं महाकविजयीं त्रैलोक्यसम्मोहनीं
विद्युत्कोटि निभां प्रसन्न बगलां प्रत्यर्थिवाक्त्सम्भिनीम् ॥ २६ ॥
दुःखेन वा यदि सुखेन च वा त्वदीयं
स्तुत्वाऽथ नामबगले समुपैति वश्यं ।
निश्चित्य शत्रुमबलं विजयं त्वदङ्घ्रि
पद्मार्चकस्य भवतीति किमत्र चित्रम् ॥ २७ ॥
विमोहितजगत्त्रयां वशगतावनवल्लभां
भजामि बगलामुखीं भवसुखैकसन्धायिनीं ।
गेहं नातति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पापकृत्सुकृतति क्ष्मावल्लभोधावति ॥ २८ ॥
मृत्युर्वैधृतिदूषणं सुगुणति त्वत्पादसंसेवनात्
त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियां ।
नित्यं यस्तु मनोहरं स्तवमिदं दिव्यं पठेत्सादरं
धृत्वा यन्त्रमिदं तथैव समरे बाह्वोः करे वा गले ॥ २९ ॥
राजानो वरयोषितोथकरिणस्सर्वामृगेन्द्रा वशाः
स्तोत्रैर्यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ।
निर्निद्रे बगले समुद्रनिलय़े रौद्र्यादि वाङ्मुद्रिके
भद्रे रुद्रमनोहरे त्रिभुवनत्राणे दरिद्रापहे ॥ ३० ॥
सद्रत्नाकर भूमिगोज्वल करी निस्तन्द्रि चान्द्रानने
नीहाराद्रिसुते निसर्गसरले विद्ये सुराद्ये नमः ।
देवी तस्य निरामयात्मजमुखान्यायूम्षि दद्यादिदं
ये नित्यं प्रजपन्ति भक्ति भरितास्तेभ्यस्स्तवं निश्चितम् ॥ ३१ ॥
नूनं श्रेयो वश्यमारोग्यतां च प्राप्तस्सर्वं भूतले साधकस्तु ।
भक्त्या नित्यं स्तोत्रमेतत्पठन्वै विद्यां कीर्तिं वम्शवृद्धिं च विन्देत् ॥ ३२ ॥
इति श्रीरुद्रयामले श्रीबगलामुखीस्तोत्रम् ॥
इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.