Site icon Stotra Nidhi

Sri Bagalamukhi stotram – 1 – श्री बगलामुखी स्तोत्रम् – १

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं अस्य श्रीबगलामुखीस्तोत्रस्य-नारदऋषिः श्री बगलामुखी देवता- मम सन्निहितानां विरोधिनां वाङ्मुख-पदबुद्धीनां स्तम्भनार्थे स्तोत्रपाठे विनियोगः

मध्येसुधाब्धि मणिमण्टप रत्नवेदि
सिंहासनोपरिगतां परिपीतवर्णां ।
पीताम्बराभरण माल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरि जिह्वाम् ॥ १ ॥

जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीं ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां भजामि ॥ २ ॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पक द्युतिमदिन्दुबिम्बाननां ।
गदाहत विपक्षकां कलितलोलजिह्वाञ्चलां
स्मरामि बगलामुखीं विमुखवाङ्मनस्स्तम्भिनीम् ॥ ३ ॥

पीयूषो दधिमध्यचारु विलस द्रक्तोत्पले मण्टपे
सत्सिंहासन मौलिपातितरिपुं प्रेतासनाध्यासिनीं ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां
इत्थं ध्यायति यान्ति तस्य विलयं सद्योथ सर्वापदः ॥ ४ ॥

देवित्त्वच्चरणाम्बुजार्चनकृते यः पीत पुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरं ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिव-
स्तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्‍क्षणात् ॥ ५ ॥

वादी मूकति कङ्कति क्षितिपतिर्वैश्वानरश्शीतिति
क्रोधीशाम्यति दुर्जनस्सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणा यन्त्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ६ ॥

मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुख स्तम्भो भवेद्वादिनाम् ॥ ७ ॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतस्समाकर्षणं ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ८ ॥

मातर्भञ्जय मे विपक्षवदनां जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तम्भय ।
शत्रूम्श्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ ९ ॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहिमाम् ॥ १० ॥

संरम्भे सौरसङ्घे प्रहरणसमये बन्धनेवारिमध्ये
विद्यावादेविवादे प्रतिकृतिनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ११ ॥

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसञ्छेदिनी
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुस्फोटोच्चाटनकारिणी जनमनस्संमोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रमन्त्रो यथा ॥ १२ ॥

विद्यालक्ष्मीस्सर्वसौभाग्यमायुः
पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानो भोगो वश्यमारोग्यसौख्यं
प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥ १३ ॥

यत्कृतं च जपं होमं गदितं परमेश्वरी ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ १४ ॥

पीताम्बरां तां द्विभुजां त्रिनेत्रां गात्रगोज्ज्वलां ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ॥ १५ ॥

ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतं ।
गुरुभक्ताय दातव्यं नदेयं यस्य कस्यचित् ॥ १६ ॥

नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरात्
धृत्वायन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणस्सर्पा मृगेन्द्रादिकाः
ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरास्सिद्धयः ॥ १७ ॥

इति श्री रुद्रयामले तन्त्रे श्री बगलामुखी स्तोत्रम् ॥


इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments