Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री बगला प्रत्यङ्गिरा मन्त्रस्य नारद ऋषिः त्रिष्टुप् छन्दः प्रत्यङ्गिरा देवता ह्लीं बीजं हूं शक्तिः ह्रीं कीलकं मम शत्रुनाशने विनियोगः ॥
मन्त्रः –
ओं प्रत्यङ्गिरायै नमः । प्रत्यङ्गिरे सकल कामान् साधय मम रक्षां कुरु कुरु सर्वान् शत्रून् खादय खादय मारय मारय घातय घातय ओं ह्रीं फट् स्वाहा ॥
कवचम् –
भ्रामिणी स्तम्भिनी देवी क्षोभिणी मोहिनी तथा ।
संहारिणी द्राविणी च जृम्भिणी रौद्ररूपिणी ॥ १ ॥
इत्यष्टौ शक्तयो देवि शत्रुपक्षे नियोजिताः ।
धारयेत् कण्ठदेशे च सर्वशत्रुविनाशिनी ॥ २ ॥
ओं ह्रीं भ्रामिणी मम शत्रून् भ्रामय भ्रामय ओं ह्रीं स्वाहा ।
ओं ह्रीं स्तम्भिनी मम शत्रून् स्तम्भय स्तम्भय ओं ह्रीं स्वाहा ।
ओं ह्रीं क्षोभिणी मम शत्रून् क्षोभय क्षोभय ओं ह्रीं स्वाहा ।
ओं ह्रीं मोहिनी मम शत्रून् मोहय मोहय ओं ह्रीं स्वाहा ।
ओं ह्रीं संहारिणी मम शत्रून् संहारय संहारय ओं ह्रीं स्वाहा ।
ओं ह्रीं द्राविणी मम शत्रून् द्रावय द्रावय ओं ह्रीं स्वाहा ।
ओं ह्रीं जृम्भिणी मम शत्रून् जृम्भय जृम्भय ओं ह्रीं स्वाहा ।
ओं ह्रीं रौद्री मम शत्रून् सन्तापय सन्तापय ओं ह्रीं स्वाहा ॥ ३ ॥
फलश्रुतिः –
इयं विद्या महाविद्या सर्वशत्रुनिवारिणी ।
धारिता साधकेन्द्रेण सर्वान् दुष्टान् विनाशयेत् ॥ ४ ॥
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत् स्थिरमानसः ।
न तस्य दुर्लभं लोके कल्पवृक्ष इव स्थितः ॥ ५ ॥
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
स एव दासतां याति सारात्सारामिमं मनुम् ॥ ६ ॥
इति श्रीरुद्रयामले शिवपार्वतिसंवादे श्री बगला प्रत्यङ्गिरा कवचम् ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.