Site icon Stotra Nidhi

Narayaneeyam Dasakam 43 – नारायणीयं त्रिचत्वारिंशदशकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

नारायणीयं त्रिचत्वारिंशदशकम् (४३) – तृणावर्तवध

त्वामेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढगरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ४३-१ ॥

तावद्विदूरमुपकर्णितघोरघोष-
-व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव-
-र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ४३-२ ॥

उद्दामपांसुतिमिराहृतदृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालकस्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद ॥ ४३-३ ॥

तावत् स दानववरोऽपि च दीनमूर्ति-
-र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
घोषे व्यतायत भवज्जननीनिनादः ॥ ४३-४ ॥

रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-
-स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ ४३-५ ॥

रोदाकुलास्तदनु गोपगणा बहिष्ठ-
-पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपतन्तममुष्यवक्ष-
-स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ४३-६ ॥

ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
-भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ४३-७ ॥

एकैकमाशु परिगृह्य निकामनन्द-
-न्नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी-
-हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ४३-८ ॥

भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
इत्यादि मातरपितृप्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ ४३-९ ॥

वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान् मम गदान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ४३-१० ॥

इति त्रिचत्वारिंशदशकं समाप्तम् ।


స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments